SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Jain Education I पेनानेन सा वशा । तयोः कुमारयोर्जातविश्वासैवमभाषत ॥ २८ ॥ हे क्षत्रियकुमारौ ! यत् पृष्टं तत् शृणुतं युवाम् । सैषा गोलानदी नाम्ना, तटे यस्याः स्थितौ युवाम् ॥ २९ ॥ इतश्चन्द्रावती नाम, समीपेऽस्ति महापुरी । श्रीवीरधवलो | राजा, राज्यं तस्यां करोति च ॥ २३० ॥ कुमारश्चिन्तयामास, चित्रं चित्रमहो ! महत् । निपतन् निपतन् स्थाने, काहं निपतितोऽधुना ॥ ३१ ॥ तातेन प्रेषितो यत्र यदेव मम वाञ्छितम् । मया तन्मङ्क्षु सम्प्राप्तमहो पुण्यस्य वैभवम् ॥ ३२ ॥ कुमार्या मिलितश्चाहं गतयाऽपि यमालये । मयैषा जीविता चाहो, अनुकूलो विधिर्मम ॥ ३३ ॥ कुमारः | स्माह किं भद्रे !, बभूवास्य महीभुजः । बभाषे साथ तस्यासीत्, कन्या मलयसुन्दरी ॥ ३४ ॥ प्रारब्धो मण्डप - स्तस्या, राज्ञा नाम्ना स्वयंवरः । सर्वत्र प्रहिता दूता, आह्नातुं राजनन्दनान् ॥ ३५ ॥ अतो दिनात्तृतीयेऽह्नि, चतुर्दश्यां स्वयंवरः । राज्ञा हृष्टेन सर्वापि, सामग्री प्रगुणीकृता ॥ ३६ ॥ इतश्वास्त्यत्र तन्मातुः सपत्नी कनकावती । तस्या मलयसुन्दर्या, द्वितीया जननीति सा ॥ ३७ ॥ तस्याः कनकवत्यास्तु, सोमाख्याऽहं महल्लिका । स्थानं सर्वरहस्यानां सर्वकार्यविधायिका ॥ ३८ ॥ सदा कनकवत्येषा, वहन्ती द्वेषमुत्कटम् । तस्याश्छिद्राणि पश्यन्ती, कुमार्यां तस्थुषी रुषा ॥ ३९ ॥ ऊचेऽथ नरनेपथ्यधारिण्या राजकन्यया । प्रद्वेषस्य निमित्तं किं ?, गण्यते तत्र सुन्दरि ! For Private & Personal Use Only w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy