________________
म
यामास, रजन्यां कश्चरेदिह ? ॥१५॥ चौरश्चेद् द्यूतकारो वा, भवेजारोऽथ घातकः । तन्नारीसन्निधौ कर्तु, शक्यतेऽस्य न किञ्चन ॥ १६ ॥ भविष्यत्यथवा कोऽपि, कुमार्याः पूर्वसंस्तुतः । स इमां वीक्ष्य मत्पार्थे, करिष्यत्यसमञ्जसम् ॥ १७ ॥ ध्यात्वेति गुटिका केशपाशादाकृष्य लीलया । सङ्घष्याम्ररसेनास्याश्चित्रं भालेऽकरोदसौ ॥ १८ ॥ तत्प्रभावेण पुंरूपां, दृष्ट्वा तामवदच्च सः । सन्निष्ठ्यतेन संस्पृष्टं, यावचित्रमिदं तव ॥ १९ ॥ तावत्स्वाभाविकं रूपं, भविष्यति न ते क्वचित् । चक्रे रूपपरावर्त्तमागच्छदुष्टशया ॥ २२०॥ यतो न ज्ञायते सम्यग् , रजन्यां तिमिरे सति । चौरो वाऽन्यतरः कोऽप्यागच्छत्यनुमार्ग एव हि ॥ २१॥ इहागच्छत्वसावेक, एवावां द्वौ जनौ पुनः । पश्यत्वाशु विलक्षो वा, यातु स्थानं यथेप्सितम् ॥ २२ ॥ यावन्न ज्ञायते सम्यग्, पर्यन्तोऽस्य कथञ्चन । स्थातव्यं तावदावाभ्यां, मौनेनात्रैव सुन्दरि ! ॥ २३ ॥ मा कार्षीस्त्वं भयस्यापि, लेशं लोलेक्षणे ! हृदि । वारयिष्यामि गच्छन्तमपि वातं तवोपरि ॥ २४ ॥ एवं संस्थापितां बालां, कुमारी यावदैक्षत । तावदेकामपश्यत्स्त्रीमागच्छन्ती द्रुतं द्रुतम् ॥ २५ ॥ ततो- भाणि कुमारेण, स्वरेण मृदुना शुभे ! । काऽसि त्वमसहाया किं, कम्पः किं तव वर्मणि ॥ २६ ॥ किञ्चास्ति भूप्रदेशेऽत्र, नगरं किं! नृपश्च कः ? । आवां वैदेशिकौ विडि, न किञ्चिदुषितावपि (विह)॥२७॥ आश्वासिताऽथ मधुराला
॥ २५ ॥
Jain Education is
For Private Personel Use Only
Odaw.jainelibrary.org