SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Jain Education कुमारः स्माह मुञ्चाशु, निद्रामुद्रां मृगेक्षणे ! । गृहाण स्फुटचैतन्यं, ममातिव्याकुलं मनः ॥ ३ ॥ उन्मील्य नयने सम्यगुत्थिता सा नृपात्मजा । वपुः सम्बाहनाऽऽसक्तं, वीक्षाञ्चके नृपात्मजम् ॥ ४ ॥ वपुः संवृत्य पश्यन्ती, बाला तं स्निग्धया दृशा । उवाच जीविताऽहं तु कथं मे तेऽपि सङ्गमः १ ॥ ५ ॥ कुमारः स्माह तन्वङ्गि !, प्रत्यासन्नाऽऽपगाजले । प्रक्षालय | वपुस्तावज्जम्बालाविलमात्मनः ॥ ६ ॥ पश्चादावां गदिष्यावो, वृत्तान्तं तं निजं निजम् । इत्युत्थाप्य कुमारी सा, नीता तेन नदीतटम् ॥ ७ ॥ वपुः प्रक्षाल्य पीत्वा च जलं चावृत्य तावुभौ । उपविष्टौ पुनः स्वस्थौ, तस्यैवाम्रतरोस्तले ॥ ८ ॥ ततो मलयसुन्दर्या, पृष्टः सन्तुष्टचेतसा । कुमारेणाखिलोऽभाणि स्ववृत्तान्तो ऽतिचित्रकृत् ॥ ९ ॥ चमत्कारकरं श्रुत्वा, वृत्तान्तं तस्य विस्मिता । कुमारी कम्पयामास, स्वमूर्द्धानं पुनः पुनः ॥ २१० ॥ क्षिपन्ती स्नेहलां दृष्टिं, कुमारे सा जगौ पुनः । अनुभूतमहो कष्टं त्वया सुन्दर ! कीदृशम् ? ॥ ११ ॥ कुमारः स्माह तन्वङ्गि !, स्ववार्त्ती ब्रूहि मूलतः । उदरेऽजगरस्यास्य, कथं त्वं पतिता किल ? ॥ १२ ॥ तादृशं सौघमारूढा, रक्ष्यमाणा महाभटैः । अनेन त्वमिहानीता, गिलित्वा पाप्मना कथम् ? ॥ १३ ॥ सा जगाद प्रवेशं न जानाम्यजगरोदरे । अन्यत्सर्वे शृणु त्वं मे, भूत्वा वज्रसमोऽधुना ॥ १४ ॥ इतश्चाकर्णयामास कुमारो मर्त्यसञ्चरम् । चित्ते च चिन्त ional For Private & Personal Use Only www.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy