SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ म. सु. ॥२४॥ स्कन्धे, तस्थौ यावन्नृपात्मजः । तावत् शुश्राव मूलेऽस्य, गाढं भूघर्षणारवम् ॥ १९० ॥ सावधानदृशा पश्यन् , म. का. कुमारो मूलसम्मुखम् । आगच्छन्तमजगरमर्धग्रस्ताऽङ्गिनं गुरुम् ॥ ९१ ॥ कुमारश्चिन्तयामास, स्कन्धेनास्फालनेच्छया । क्रूरः कवलितप्राणी, जीवः कोऽपि समेत्ययम् ॥ ९२ ॥ दीयते चेदजगरग्रस्तस्यैतस्य देहिनः । जीवितं । तन्ममाप्यत्रागमनं सफलं भवेत् ॥ ९३ ॥ उत्ततार तरुस्कन्धादवलम्ब्याथ साहसम् । करुणापूर्णहृदयः, प्रच्छन्नो निभृतक्रमः ॥ ९४ ॥ यावत्सोऽजगरो वेष्टं, समं मूलेन दास्यति । कुमारस्तत्पुरस्तावत् , स्थानमास्थाय संस्थितः ॥१५॥ दक्षत्वेन ततस्तस्य, गृहीत्वौष्ठयुगं समम् । कराभ्यां पाटितं तेन, तन्मुखं जीर्णवस्त्रवत् ॥ ९६ ॥ तन्मुखात्पतिता चैका, युवती मन्दचेतना। जल्पन्तीति कुमारस्य, शरणं मे महाबलः ॥ ९७ ॥ दृष्ट्वा तामात्मनो नाम, गृह्यमाणं । तया स्त्रिया । श्रुत्वा च विस्मितश्चित्ते, कुमारोऽतिशयेन सः ॥ ९८ ॥ मुक्त्वाऽथाजगरस्यास्यं, हस्ताभ्यामुभये दले । पश्यन्नासन्न एतस्याः, सोऽपश्यन् मुखपङ्कजम् ॥ ९९ ॥ ततो मलयसुन्दर्या, सदृक्षां वीक्ष्य तां वशाम् । चमत्कृतः स ॥२४॥ चिक्षेप, वातं वस्त्रेण शीतलम् ॥ २०० ॥ मूर्छापरवशा बाला, सा तं श्लोकमचीकथत् । कुमारेण ततोऽज्ञायि, सैषा : मलयसुन्दरी ॥ १ ॥ आदरेण ततस्तस्या, देहसंबाहनापरे । कुमारे स्वस्थताभाजो, दृष्टिरुन्मीलिता क्षणात् ॥ २ ॥ Jain Education ulla For Private Personel Use Only jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy