________________
Jain Education
मास, सैवैषा कापि देवता ॥ ७७ ॥ तदेषा मां रुषा क्वापि, गह्वरे क्षेप्यति ध्रुवम् । इति मत्वा कुमारो द्राग्, वज्र - | मुष्टया जघान ताम् ॥ ७८ ॥ आरटन्ती ततो दीनवदना करुणस्वरम् । मुहुर्मुहुर्वदन्तीति, मुञ्च मुञ्च कृपानिधे ! | | ॥ ७९ ॥ मुक्ता करात्कुमारेण, कारुण्यादाशु सा सुरी । तथा नष्टा यथा तस्या, यान्त्या मार्गोऽपि नेक्षितः ॥ १८० ॥ निराधारः कुमारोऽथ, पपात सहसाम्बरात् । फलभारातिनम्रस्य चतवृक्षस्य मूर्द्धनि ॥ ८१ ॥ अनुभूय क्षणं मूर्च्छा, मीलिताक्षो नृपात्मजः । वनवातेन शीतेन, पुनः प्राप स चेतनाम् ॥ ८२ ॥ सहकारतलाधारपातादल्पव्यथान्वितम् । कुमारश्चिन्तयामास, प्रदेशेऽहं क हाऽपतम् ॥ ८३ ॥ शून्ये वसति वा शैले, वृक्षाग्रे भूतलेऽथवा । परपर्शेति धिया | रात्रितमः स्तोमे करेण सः ॥ ८४ ॥ शिखरं चतवृक्षस्य, ज्ञात्वा पक्कफलान्वितम् । शाखां भारक्षमामेष, सिषेवे पातशङ्कया ॥ ८५ ॥ ( हृदीति तेन चिन्तितम् ) क्षणेनोत्तीर्य शिखरात्, चूतस्कन्धमुपागतः । कुमारश्चिन्तयामास, निशा - | मध्ये निशातधीः ॥ ८६ ॥ अहो कथमवस्थां कां, सम्प्राप्तोऽपहतस्तया ? । क्वाहं सम्प्रति तं हारं, कथं द्रक्ष्यामि लोचनैः ? ॥ ८७ ॥ प्रतिज्ञां पूरयिष्यामि, कथमम्बापुरः कृताम् | असम्प्राप्ते पुनहारे, हा माता जीविता कथम् ? ॥ ८८ ॥ देवीमृतेः कथं तातः, प्राणान् धर्त्तु सहिष्यति । तन्मे संप्रति वंशस्य, संहारः समुपस्थितः ॥ ८९ ॥ इति ध्यायंस्तरु
For Private & Personal Use Only
w.jainelibrary.org