________________
हे वत्स!, गच्छ त्वं द्राग् स्वयंवरम् ॥ ५२ ॥ निश्यद्यैव प्रयाहि त्वं, रथोदामबलान्वितः । मान्योऽस्माकं यतो वीरधवलोऽसौ महान्नृपः ॥ ५३ ॥ संयोज्याथ करौ शीर्ष, कुमारो नमयन्निजम् । उवाचेति प्रमाणं मे, तातादेशः प्रमोद-/ कृत् ॥ ५४॥ सज्जीभवति सैन्येऽथ, गमनाय नृपाज्ञया। राज्ञोचे वत्स ! तं हार, गृहाण सह सुन्दरम् ॥ ५५ ॥ कुमारेण ततोऽभाणि, न जाने तात! कारणम् । अलक्ष्यः कोऽपि निद्राणमुपद्रवति मां निशि ॥ ५६॥ कदाचिद् हरते वस्त्रं, शस्त्रं वाऽऽभरणं तथा । कदाचिद्रौद्रशब्देन, सोऽट्टहासञ्च मुञ्चति ॥ ५७ ॥ लक्ष्मीपुञ्जो मया हारो, गृहीतो मातृकण्ठतः। सुप्तस्याद्य हृतस्तेन, रजन्यां मम पार्श्वतः ॥ ५८ ॥ ज्ञात्वा तं तु गतं हारं, देवी दु:खं तथाऽकरोत् । यथाऽहं मातृदुःखेन, भृशं चिन्ताकुलोऽभवम् ॥ ५९॥ प्रतिज्ञाऽथ कृताऽस्तीति, देव ! देव्याः पुरो मया । पञ्चाहान्तन । चेद् हारं, ददेऽग्निं साधये तदा ॥ १६० ॥ देव्याऽपि भणितं देव!, तं हारं न लभे यदि । मर्त्तव्यं तन्मया नूनं, सन्देहो । नात्र विद्यते ॥६१ ॥ अदृश्यः कोऽपि भूतोऽयं, घटतेः वाऽथ राक्षसः। जन्मान्तरस्य वैरी मे, प्रचण्ड परमेश्वरः॥ ६२॥ एक द्वौ त्रीश्च यामान वा, यावदद्य ततो निशि । स्थास्यामि प्रहरे तस्य, ताताहमसिना युतः ॥ ६३ ॥ यदद्यैष्यति दुष्टः स, तं विजित्य तदा ततः । सर्व लात्वा च तं हारं, पुनर्मातुः समर्प्य च ॥ ६४ ॥ पश्चात्पश्चिमयामिन्यां, करिष्यामि
Jain Education
a
l
For Private Personel Use Only
jainelibrary.org