________________
म. सु.
॥ २१ ॥
40000
यातः स ईक्षताम् ॥ १४ ॥ श्रुत्वा कनकवत्यास्तद्, वाक्यं भूपतिसूनुना । स तथोल्लासितो हारो, यथा दृष्टोऽखिलैर्जनैः ॥ १५ ॥ ततो व्यावृत्य ते सर्वे, स्वं स्वं स्थानं ययुः क्षणात् । दध्यौ कनकवत्येवं, सविषादा स्वचेतसि ॥ १६ ॥ क्व गतः स कथं जातः ?, कुमारो यो मयेक्षितः । किं मे हताशमनसः सञ्जातः कोऽपि विभ्रमः ? ॥ १७ ॥ हाहाऽहं निन्दिता सर्वैर्विख्याता कूटभाषिणी । तदेतस्याः कुमार्यां मे, लघुता भवतीदृशी ॥ १८ ॥ वैरिणी प्राग्भवस्यैषा, नूनं मलयसुन्दरी । गच्छन्ती भाषमाणाऽपि ममोद्वेगं करोत्यलम् ॥ १९ ॥ कदा कथं महानर्थे, पतिष्यति मरिष्यति । कदा चैषेति कनकवत्यस्थाच्चिन्तयत्यलम् ॥ १२० ॥ मुखादाकृष्य गुटिकां कृत्वा रूपं निजं ततः । कुमारः स्माह तन्वङ्गि !, गुटिकावैभवं ह्यदः ॥ २१ ॥ तिष्ठतोऽत्र पुनः किञ्चित् विरूपं मे भविष्यति । द्रुतं तद् याम्यहं त्वं तु, तिष्ठेः स्वस्था|ऽत्र सुन्दरि ! ॥ २२ ॥ आवयोरनुकूलोऽस्ति, विधिः सम्प्रति वेद्म्यहम् । संयोगो दुर्लभो यस्मादेषोऽभूदवितर्कितः ॥ २३ ॥ करिष्यति स एवेदं, कार्या चिन्ता त्वया नहि । श्लोकोऽयं सर्वदा ध्येयश्चित्तस्वास्थ्यविधायकः ॥ २४ ॥ विधत्ते यद्विधिस्तत्स्यान्न स्यात् हृदयचिन्तितम् । एवमेवोत्सुकं चित्तमुपायान् चिन्तयेत् बहून् ॥ २५ ॥ टङ्कोत्कीर्ण इव श्लोको, लग्नस्तस्या अयं हृदि । स्वशिरो धुन्वती तस्थौ, तत एषा मृगेक्षणा ॥ २६ ॥ शिवास्ते सन्तु पन्थानः, कुमारे
For Private & Personal Use Only
Jain Education International
म. का
w.jainelibrary.org