________________
यावत्तावन्न्यवेदयत् । गत्वा कनकवत्येतत् , सविशेष क्षमापतेः ॥ २ ॥ राजा समाययौ तत्र, ततो रोषारुणेक्षणः । हतहतेति जल्पद्भिः, सुभटैर्वेष्टितो भृशम् ॥३॥ कांदिशीका जगादाथ, राजकन्या विमूढधीः । भविष्यसि कथं त्वं हा, कुमार प्रवराकृते ! ॥ ४ ॥ धिग् पापां विषकन्यां मां, या जाता क्षयकारिणी । पुण्यप्राग्भारलभ्यस्य, पुरत्नस्य ।
तवाधुना ॥ ५ ॥ मा भीरत्वमपि मा ध्यासीरनिष्टं किञ्चनापि मे । इति जल्पन स्वधम्मिल्लात् , कुमारो गुटिकामधात् । Man ६ ॥ गुटिकायाः प्रभावेण, प्रक्षिप्ताया मुखान्तरे । रूपं चम्पकमालाया, दृष्टाया राजसन्निधौ ॥ ७ ॥ कृत्वा ।
कुमार आसीनाः, कुमार्याः सन्निधौ क्षणात् । तथाभूतं तमालोक्य, कुमारी च विसिमिये ॥ ८॥ भङ्क्त्वा तालकमद्घाट्य, द्वारं यावत्समीक्षितम् । दृष्टा मातृयुता तावत् , राज्ञा मलयसुन्दरी ॥ ९॥ राज्ञा कनकवत्यास्याभिमुखं । वीक्ष्य भाषितम् । प्रिये ! पश्य स्वयं तावत्, त्वया किं कथितं मम ? ॥ ११० ॥ यावदेक्षत मध्ये सा, कुमारी मातृसंयुताम् । तावद्विलोक्य वेगेन, विलक्षवदनाऽभवत् ॥ ११ ॥ स्मयमानः कुमारोऽथ, जगादागच्छ हे स्वसः!। राजा किं कुपितः कस्मै, किं मह्यमपि ? तद्वद ॥ १२ ॥ जल्पन्तीमिति चम्पकमालामालोक्य ते जनाः । आक्रोशन्ति स्म । सर्वेऽपि, तामेव नृपवल्लभाम् ॥ १३ ॥ ततः कनकवत्याख्यत् , हारो दत्तोऽनया प्रभो! । इहागताय कस्मैचिन , नरा
Jain Education in
For Private & Personel Use Only
arjainelibrary.org