SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ म. सु..ऽखिलम् । स्वकीयचित्तसंकल्पः, साधु साधु निवेदितः ॥ ८९ ॥ परं न जनप्रत्यक्षं, पितृभ्यामिह दीयते । याव-म. २०॥त्कन्या कुलीनानां, तावद्दोढुं न साम्प्रतम् ॥ ९० ॥ मा स्म ताम्यः शुभे त्वं तन, मा भूश्चोत्सुकमानसा । तिष्ठ । निर्वृतचित्ताऽत्र, सुखेन कति वासरान् ॥ ९१ ॥ बुद्धि तथा तथा धास्ये, यतिष्येऽहं तथा तथा । यथा दत्तां पितृभ्यां त्वां, परिणेष्याम्यहं ननु ॥ ९२ ॥ विशालाक्षि ! प्रतिज्ञेषा, मया चक्रे पुरस्तव । सुप्रसन्नाऽधुना भूत्वा, त्वं मां विसृज सुन्दरि ! ॥ ९३ ॥ तदा कनकवत्या तु, प्रच्छन्नं द्वारभूस्थया । तयोर्व्यतिकरः सम्यगेष दृष्टः श्रुतः पुनः ॥९४॥ क्रुधा साऽचिन्तयन्नूनं, कोऽप्येष विप्रतार्य माम् । कृतसङ्केतको वीरः, कुमारीपार्श्वमभ्यगात् ॥ ९५॥ द्वारं पिधाय सहसा, तया । दत्तं च तालकम् । ददती तालकं दृष्टा, सा ताभ्यां च दुराशया ॥९६॥ कुमार्योक्तमियं मातुः,सपत्नी जननी मम। नाम्ना कनकवत्यत्र सौधाधोभुवि वासिनी॥९७॥ एतया छन्नया द्वारे,स्थित (हारस्थित्या) या व्यतिकरः श्रुतः । वीक्षितश्चावयोः सर्वो, दत्तं तेनेति तालकम् ॥९८॥ तदेषा कुपिता किञ्चिदन चालयिष्यति । न ज्ञाता हा मयाप्येषा, सपत्नी मातुरागता ॥ ९९ ॥ कुमारः स्माह कामार्थमागच्छन् प्रार्थितोऽनया । किन्तु कूटोत्तरं कृत्वाऽहमायातोऽत्र सुन्दरि! ॥ १० ॥ मम पृष्ठिविलग्नेयं, नूनं हेरितुमागता । अस्मद्व्यतिकरं दृष्ट्वा, जाता कोपपरा तथा ॥ १ ॥ जल्पन्तावित्यभूतां तौ, ॥२०॥ Jain Education Intel For Private Personel Use Only jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy