SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ पद्मावतीजातः, पुत्रो नाम्ना महाबलः ॥ ७६ ॥ देशस्य दर्शनायात्र, परिवारसमन्वितः । सर्वामलकलावास, आगतोऽहं वरानने ! ॥ ७७ ॥ इमामाश्चर्यसम्पूर्णा, नगरी च विलोकयन् । तव प्रासादमूलेऽत्र, प्रदेशे यावदागमम् ॥७८॥ यावत्तव ममाप्येष, सञ्जातो दृष्टिमेलकः । दर्शयन् कमपि स्नेह, मिथो जन्मान्तरोद्भवम् ॥ ७९ ॥ अतः परञ्च यज्जातं, तदत्र प्रकटं तव । प्रविश्य सङ्कटेऽप्यत्र, मिलितोऽस्मि तवाधुना ॥ ८० ॥ तदहं यामि येनाशु, प्रयाणं सम्भविष्यति । परिवारजनः सर्वो, मुक्तः सज्जीभवन्मया ॥ ८१ ॥ सोचे सुभग ! गन्तव्यं, न त्वया , स्थयमत्र तु । तवादर्शनतो येनाहं प्राणान् धर्तुमक्षमा ॥ ८२ ॥ यदि यास्यसि चेत्त्वं मामवज्ञायातिनिष्ठुरः । त्वया सुभग! दातव्यस्तन्मे प्राणजलाञ्जलिः ॥ ८३ ॥ तत्प्रसीदात्र तिष्ठ त्वं, सम्पूरय ममेप्सितम् । यावत्पश्याम्यहं त्वां मे, तावत् । सुभग ! निर्वृतिः॥ ८४॥ अन्यच्चाहमिहातिथ्यं, किडरोमि कुमार ! ते ? । एकं तावन्मया तुभ्यमाजन्मात्मा समकार्पितः ॥ ८५ ॥ लक्ष्मीपुञ्जमिमं हार, गृहाण त्वं द्वितीयकम् । जल्पन्तीति निचिक्षेप, हारं कण्ठेऽस्य सा निजम्॥८६॥ उवाच च मया हारमिषादेषा गले तव । प्रक्षिप्ता च वरमाला, तद्गन्धर्वोहाहमातनु ॥ ८७ ॥ त्वया सार्द्धमहं पश्चादागमिष्यामि सुन्दर ! । वियोगजनितं दुःखं, मा भूत्कर्हिचिदावयोः ॥ ८८ ॥ कुमारेण ततः प्रोचे, युक्तमुक्तं त्वया Jain Education in de na For Private & Personel Use Only Pabrjainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy