SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ म. सु. भो भो नरोत्तमागच्छ त्वमास्वात्रासने वरे । मां मानयस्व निःशङ्कं मम पूरय वाञ्छितम् ॥ ६४ ॥ कुमारश्चिन्त- म. का. ॥ १९ ॥ ४ यामास, किमेषा राजवल्लभा ? | राजस्वसाऽथवा नूनं राज्ञ्येवेयं विचार्यते ॥ ६५ ॥ यद्यात्मा मुच्यते स्वैरं प्रविष्टैः स्थान ईदृशि । नारीभिर्मुह्यते ब्रह्मव्रतं स्वस्य च खण्ड्यते ॥ ६६ ॥ तदा समीहितं कार्य, साध्यते नोत्तमैर्नरैः । इति निश्चित्य हृदये, कुमारस्तामभाषत ॥ ६७ ॥ युग्मम् । योग्यं मलयसुन्दर्या, लात्वाऽहं किञ्चिदागतः । तद् ब्रूहि सत्वरं राज्ञः, सा कन्या कुत्र तिष्ठति ? ॥ ६८ ॥ पश्चाद् भणिष्यसि त्वं यत्, करिष्येऽहं तदेव हि । इत्युक्ते दर्शितो मार्ग, ऊर्ध्वभूमेस्तदा तया ॥ ६९ ॥ ऊर्ध्वभूमिं समारूढे, कुमारे सा नृपप्रिया । अनुगम्य स्थिता द्वारे, प्रच्छन्ना शृण्वती वचः ॥ ७० ॥ ययौ यावत्कुमारः सः, कुमारीवासवेश्मनि । तावद्ददर्श तां बालां, विन्यस्तास्यां कराम्बुजे ॥ ७१ ॥ तत्रैवासन आसीनां, पश्यन्तीं तां दिशं मुहुः । एकाग्रमानसां किञ्चित् ध्यायन्तीं श्यामलाननाम् ॥ ७२ ॥ कुमारेण ततः प्रोक्तमितः पश्य मृगेक्षणे ! । सोऽहं पुरोऽत्र तिष्ठामि, निःसृत्य हृदयात्तव ॥ ७३ ॥ निशम्य वलितग्रीवं, सुधासममिदं वचः । तं दृष्ट्वा सा हिया जज्ञे, हसन्ती द्रागधोमुखी ॥ ७४ ॥ कुमारेणोदितं चित्तसर्वस्वं मे त्वयाऽर्पितम् । श्लोकयुग्मेन यत्पृष्टं, मत्स्वरूपं च तत् शृणु ॥ ७५ ॥ पृथ्वीस्थानपुरे रम्ये, सुरपालनरेशतुः । देवी Jain Education I For Private & Personal Use Only ॥ १९ ॥ w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy