SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Jain Education Int वातायना रम्याश्चित्तमत्रैव मे स्थितम् ॥ ५१ ॥ ब्रुवन्निति कुमारोऽथ, पश्चाद्ग्रीवं पुनः पुनः । पश्यन्नावासमानीतस्तेन पुंसा कथञ्चन ॥ ५२ ॥ युग्मम् । दध्यौ कुमार औत्सुक्यादहो मम समर्थता । आत्मानमपि यत्तस्याः, प्रकाशयितुमक्षमः ॥ ५३ ॥ तया पृष्टं न शक्तोऽहमपि दातुं तथोत्तरम् । अहो कलासु नैपुण्यमहो विदग्धता मम ॥ ५४ ॥ अत्रागतोऽपि नाहं चेन्मिलिष्यामि तया सह । आवयोस्तत्कथं मेल: ?, पश्चात्तापः सदा मम ॥ ५५ ॥ तत्सञ्जाता|ऽधुना रात्रिस्तिमिरेण विजृम्भते । ततो यावज्जनोऽप्येष प्रयाणप्रगुणो भवेत् ॥ ५६ ॥ प्रच्छन्नं तावदेकाकी, तत्र गच्छामि सम्प्रति । तस्या विरहखिन्नाया, मिलित्वा स्वं ब्रवीम्यहम् ॥ ५७ ॥ युग्मम् । ध्यात्वेति प्रगुणीभूय, निस्सृत्यालक्षितो निशि । कुमारीभवनाधस्तात् कुमारः प्राप सत्वरम् ॥ ५८ ॥ प्राकारं तं समुल्लङ्घ्य, विद्यूत्क्षिप्तानुकारिणा । करणेनाविशद्वेगात्प्रथमां सौघभूमिकाम् ॥ ५९ ॥ वसत्या तत्र कनकवत्या राजन्यभार्यया । अपरिच्छदयाऽदर्शि कुमारः प्रविशन्निशि ॥ ६० ॥ धैर्येण कलितोऽपूर्वो, दिव्यरूपः क एष ना ? । कथं वात्र प्रविष्टोऽयं, द्वारपालेषु सत्स्वपि ? | ॥ ६१ ॥ तन्नूनं खेचरः कोऽपि, नरः सत्त्वाधिकोऽथवा । प्रयोजनेन केनाऽपि हृष्टचित्तः समेति किम् ? ॥ ६२ ॥ व्यायन्तीति कुमारस्य, दिव्यरूपेण मोहिता । नरेन्द्रवल्लभा वक्तुं प्रारेभे तं प्रतीति सा ॥ ६३ ॥ त्रिभिः कुलकम् । For Private & Personal Use Only jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy