________________
म. मु. मेऽहरच्चित्तं, पश्यन् स्नेहलया दृशा ? ॥३८॥ उत्सुका सा ततो भूर्जे, लिखित्वा श्लोकयुग्मकम् । प्रसन्नं निजचित्तेन. म. का. ॥१८॥ सधैं चिक्षेप तं प्रति ॥ ३९ ॥ कुमारेणापि तल्लात्वा, रोमाञ्चं दधता तनौ । कुमार्या सह हर्षेण, वाचितं निज
चेतसि ॥ ४० ॥ कोऽसि त्वं ? तव किं नाम ?, क्व वास्तव्योऽसि सुन्दर ? । कथय त्वयका जह्वे, मनो मे क्षिपता दृशम् ॥ ४१ ॥ अहं तु वीरधवलभूपतेस्तनया कनी। त्वदहृदयावर्तिनाम्ना मलयसुन्दरी ॥ ४२ ॥ ईक्षांचक्रे | कुमारोऽथ, कन्यां मलयसुन्दरीम् । निर्निमेषाक्ष एकाग्रमानसो योगिराजवत् ॥ ४३ ॥ तयोस्तथा मिथो लग्ना, देहे । दृष्टिर्यथा चिरात् । जतुयुक्तेन जम्बालकलितेवोत्पपात न ॥ ४४ ॥ लोचनान्येव जानन्ति, सम्बन्धं पूर्वजन्मनः । यतो हर्ष प्रिये दृष्टे, वहन्ति चाप्रिये रुषम् ॥ ४५ ॥ दृष्टिभ्यां दर्शिताध्वानावात्मानौ व्यत्यये स्थितौ । तयोः सिद्धः । परपुरप्रवेशो ध्यानितां विना ॥ ४६ ॥ दृष्टी मेलयता तेनानुरागसूत्रधारिणा । तथा तौ मेलितौ सम्यग्, यथा सन्धिन , लक्ष्यते ॥ ४७ ॥ कुमारोऽचिन्तयत्तावदेतया ज्ञापितो निजः । विदग्धयाऽनुरागो मे, सपरिच्छदयाऽपि हि ॥४८॥ इति ॥१८॥ घ्यायन् कुमारः स, यावत्तस्थौ सुनिश्चलः । तत्रागत्य पुमानेकस्तावत्तं प्रत्यभाषत ॥ ४९॥ कुमारालं विहारेण, नगर्या-13 मेहि मन्दिरम् । प्रयाणमधुना येन, भविष्यति पुरं प्रति ॥ ५० ॥ अहो मनोहरा एते, प्रासादा गोपुरान्विताः । अहो ।
Join Education
For Private
Personal Use Only
Ww.jainelibrary.org