________________
मृदुतलौ पादावशोकपल्लवारुणौ । अहो कान्तिभरोऽप्यस्य, नखदर्पणसम्भवः ॥ २६ ॥ अहो करिकराकार, जङ्घायुग्म मनोहरम् । रम्भास्तम्भोपमावूरू, अहो मुसोऽस्य सुन्दरौ ॥ २७ ॥ अहो कटीतटाभोगो, नाभेश्चाहो गभीरिमा । मुष्टिग्राह्यमहो मध्यं, त्रिवलीपरिशोभितम् ॥ २८ ॥ वक्षःस्थले विशालेऽस्य, धन्या काऽपि शयिष्यते । अतिदी! . भजादण्डौ, कस्याः कण्ठे लगिष्यतः ॥२९॥ तेजोभरेण दुष्प्रेक्षा भान्ति पाणिनखा अमी । कता दीपा दशान्यायतमो हन्तं दिशामिव ॥ ३० ॥ रेखास्तिस्रोऽस्य शोभन्ते, कण्ठे कम्बुसमाकृतौ । मनसः स्वच्छतां द्रष्टुं, सम्प्राप्तेव । त्रिमार्गगा ॥ ३१ ॥ प्रवालदलसच्छायः, स्वच्छो भात्यधरोऽप्ययम् । मन्ये मां हृदयाद्रष्टुमनुरागो बहिःस्थितः ॥ ३२ ॥ कटरे सरला नासा, कपोलौ कामदर्पणौ । नेत्रे कर्णान्तविश्रान्ते, श्रवणौ स्कन्धसङ्गतौ ? ॥ ३३ ॥ श्यामः केशकलापोऽस्य, राजते शिरसि स्थितः । नवशाड्बलतारुण्यवृक्षस्येव दलोच्चयः ॥ ३४ ॥ कुमारमिति पश्यन्ती, तं सर्वाङ्गमनोहरम् । चित्रन्यस्तेव सा यावत् , तस्थौ मलयसुन्दरी ॥ ३५ ॥ महाबलोऽपि तां तावत् , पश्यन् वातायनस्थिताम् । दध्यावित्यवतीर्णा किं, स्वर्गाकाऽपीयमप्प्तराः ? ॥ ३६ ॥ गाढानुरक्तया दृष्ट्या, पश्यन्ती मां पुनः पुनः हरत्येषा मनो मे किं, परिणीताऽथवा कनी ? ॥ ३७ ॥ दध्यौ सापि कुमारीति, कस्यायं नन्दनः किल । कुमारो |
Jain Education 11
For Private Personel Use Only
C
hu.jainelibrary.org