SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ein १२ ॥ सम्यग्रूपपरावर्तकारकास्तेन भाषिताः । पुनः स्वरूपक"रो, योगराजा ज्ञजन्मनः ॥ १३ ॥ गृहीत्वाऽथ म. का. कुमारण, प्रयुक्तास्ते यथाविधि । ज्ञातसत्त्वेन सत्कृत्य, विद्यासिद्धो व्यसर्जि च ॥ १४ ॥ सूरपालनृपेणाथ, प्रैषि । तैर्मन्त्रिपौरुषैः । साई श्रीवीरधवलपार्श्वे कार्येण केनचित् ॥१५॥ आपृच्छ्य पितरौ देशदर्शनाय कथञ्चन । कुमारोऽपि जगामैष, पुरी चन्द्रावतीं वराम् ॥ १६ ॥ युग्मम् । प्राभृतानि पुरो मुक्त्वा, नत्वा च नृपमादरात् । उपविष्टा यथास्थानं, सर्वे तेऽमात्यपुङ्गवाः ॥ १७ ॥ पृष्टा चन्द्रावतीशेन, कुशलं सूरभूपतेः । प्रभौ राज्ये शरीरे च, ते सर्वेऽप्यकथन् । शिवम् ॥ १८ ॥ पप्रच्छ वीरधवलो, राजा दृष्ट्वा महाबलम् । क एष लक्षणोपेतः, कुमारो मारविग्रहः ? ॥ १९॥ तेषामेकेन दक्षेण, नरेणाभाणि हे प्रभो !। स्नेहेन च समायातो, ममैव लघुबान्धवः ॥ २० ॥ इत्यालापे कृते पूर्व, राज्ञश्चन्द्रावतीपतेः । तैरात्मस्वामिनः सर्वः, कार्यसारो निवेदितः ॥ २१॥ ते सम्मान्य ततो राज्ञा, विसृष्टाः सूरपूरुषाः । निजावासमनुप्राप्ताः, कुर्वाणास्तत्प्रशंसनम् ॥ २२ ॥ महाबलकुमारोऽथ, बभ्रामाल्पपरिच्छदः । लोकलोचन- ॥१७॥ लोलैणवागुरा पूर्दिदृक्षया ॥ २३ ॥ इतरततो भ्रमन् सैष, स्वसौधान्तिकमागतः । तया मलयसुन्दर्याऽदीनङ्ग इवाङ्गवान् ॥ २४ ॥ तत्कालमाहता पञ्चबाणबाणैः समन्ततः । कुमारी चिन्तयामास, हर्षोल्लसितमानसा ॥ २५ ॥ अहो । Jain Educationisational For Private & Personel Use Only Haw.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy