SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ॥अथ द्वितीयः प्रस्तावः प्रारभ्यते॥ al अथापूर्वेव सा बाला, यौवनेन विनिर्ममे। समुल्लासयताऽङ्गेषु, लावण्यं लोचनप्रियम् ॥ १ ॥ खलवत्कुटिलाः केशाः, मध्यं तुच्छं कुमैत्रवत् । सन्मनोरथवन्नामात्, तस्याः स्तनयुगं हृदि ॥ २ ॥ नासिका सरला तस्याः, साधूनां चित्तवृत्तिवत् । केशपाशः प्रलम्बश्च, मैत्र्यभावः सतामिव ॥ ३ ॥ सुस्निग्धं लोचनद्वन्द्वं, जनन्या इव मानसम् ।। कटाक्षवीक्षणं वक्र, तस्याः सापत्न्यकृत्यवत् ॥ ४ ॥ विलासिन्या इवाचारः, सरागोऽवरपल्लवः । कण्ठो लेखाभिरामो भूत्तस्याः स्वर्ग इवान्वहम् ॥ ५ ॥ सुकुमारं वपुस्तस्याः, शालिग्रामसुवर्णवत् । मनोहरवरच्छायं, चाभवटवृक्षवत् । ॥ ६ ॥ सविलासा गतिस्तस्याः, प्रशस्या वनभूरिख । विशालं जघनं चासीत्, भूपानामिव पत्तनम् ॥ ७ ॥ अङ्गे । मालिकवत्सर्वेऽवयवाः सुमनोहराः । तस्या मलयसुन्दर्या, बभूवुर्यौवनागमे ॥ ८ ॥ इतश्चात्रैव भरते, पृथ्वीस्थाने पुरेऽभवत् । विक्रमाक्रान्तभूपालः, सूरपालो महीपतिः ॥ ९॥ तस्यासीन्मेदिनीभर्तु रतिरूपानुकारिणी । पद्मावतीति । दयिता, सर्वान्तःपुरसुन्दरी ॥ १० ॥ राज्ञस्तस्य कुमारोऽभूद्, माररूपो वपुःश्रिया । महाबलोऽभिधानेन, वीर्येणापि । महाबलः ॥ ११॥ अन्यदोदारचित्तस्य, कुमारस्यास्य सङ्गतः । विद्यासिद्धः पुमानेकः, स तेनावर्जितो भृशम Jain Education at tona For Private & Personel Use Only P ww.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy