________________
॥१६॥
म. मु.नाग्नी तयोरेवं, राजा राज्ञी च निर्वृतौ । स्मरन्तौ मलयां देवीं, तस्थतुस्तौ दिवानिशम् ॥८९॥ धात्रीभिः पञ्चभिनित्यं, म.
लाल्यमाने उभे अपि । फले इवैकवृन्तस्यापत्ये ते वृद्धिमापतुः ॥ ९० ॥ यथा यथाऽहसच्छून्यमजल्पञ्चास्फुटाक्षरम् । विसंस्थुलपदन्यासं, चक्रेऽपत्यद्वयं च तत् ॥९१॥ तथा तथा तयोः पित्रोर्ममौ हर्षो न मानसे । उदये रजनीजाने -/ रौरपूरवत् ॥९२॥ लोकानां हस्ततो हस्ते, सञ्चरन्तौ शिशू क्रमात्। समारूढौ वयो रम्यं, सुखेनोत्तरमुत्तरम् ॥१३॥ पितृभ्यां योग्यतां ज्ञात्वा, समये तत्समर्पितम् । शस्त्रशास्त्रादिदक्षस्य, पण्डितस्य शिशुद्वयम् ॥ ९४ ॥ कुमारेण कुमार्या च, यथायोग्यं कलाः किल । गृहीताः स्तोककालेन, पूर्वाधीताः स्मृता इव ॥ ९५ ॥ अश्वेन कहिचित्क्रीडां, कदाचिकुञ्जरेण च । कदाचिदसिना चक्रे, कुमारो धनुषाऽपि च॥ ९६ ॥ यथा यथा स चिक्रीड, स्वैरमेवं तथा तथा । दुर्जनानां 5सत्कारः, प्रमोदश्च सतां हृदि ॥ ९७ ॥ धात्रीवेगवतीमुख्यपरिवारसमन्विता । उद्यानादिषु चिक्रीड, कुमार्यपि यदृच्छया । ॥ ९८ ॥ कारुण्यपुण्यहृदया मृदुमुग्धवाणी, प्राणप्रिया सकलबन्धुजनस्य दक्षा । बाल्योज्झिता मलयसुन्दरिनामधेया ॥१६॥ सद्धर्मकर्मरसिका ववृधे कुमारी ॥ ३९९ ॥
॥ इति प्रथमः प्रस्तावः सम्पूर्णः ॥
..
-60444.
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org