SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ दशाहानि, स्पर्द्धावपिनं पुरे ॥ ७५ ॥ सुधाधौतानि सौधानि, पौराणां विष्टितानि च । उत्तम्भितानि सौवर्णमुशलानि हलानि च ॥७६॥ जनाः प्रज्वलयामासुः, श्रेण्या काञ्चनदीपकान् । द्वारेषु स्थापयामासुः, सौवर्णान् कलशांस्तथा । ॥ ७७ ॥ स्थापिता लोकरक्षार्थ, द्वारे कृष्टासयो भटाः। उच्छ्रिता मन्दिरेपूच्चैर्वैजयन्त्यः समन्ततः॥७८॥प्रमार्य च पथो । दासा, सिषिचुः कुङ्कुमद्रवैः । सहकारदलैरेते, बबन्धुस्तोरणानि च ॥ ७९ ॥ राजमार्गेषु सर्वेषु, त्रिकेषु चत्वरेषु च । रत्नकाञ्चनदानानि, दापयामास भूपतिः॥ ८०॥ अमुचद्वेषिणो बडान्, काराः सर्वा विशोधयन् । अमारिं घोषयामास, देशेऽसौ दश वासरान् ॥८१॥ पूजयामास बिम्बानि, जिनानां जिनमन्दिरे । लोकं चकार चादण्ड्यमकरं च नरेश्वरः । Maln८२ ॥ नेदुर्दुन्दुभयो दिव्या, ननूतुर्वारयोषितः । अक्षतानां च पात्राणि, विशन्ति स्म नृपौकसि ॥ ८३॥ पुष्पता म्बूलवस्त्राणि, महार्घाभरणानि च । राजदत्तानि हर्षेण, गृह्यन्ते रम सनाभिभिः ॥ ८४ ॥ युग्मजन्मोत्सवे तत्र, प्रमोदेन पुरीजनः । न गेहे न च देहेऽपि, ममौ क्वापि भवन् महान् ॥८५॥ सम्मान्याथ विशेषेण, भोजनाच्छादनादिभिः ।। गोत्रवृद्धानुवाचैवं, राजा द्वादशवासरे ॥८६॥ तुष्टया मलयादेव्याऽपत्ये दत्ते उभे इमे । अस्मभ्यमनपत्येभ्यो, देवानामपि दुर्लभे ॥८७॥ देवीनाम्ना भवत्वस्य, नाम युग्मस्य सम्प्रति । कुमारोऽयं मलयकेतुः, पुत्री मलयसुन्दरी ॥८८॥ दत्त्वा । .००-6000000000000 Jain Education For Private Personel Use Only O w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy