SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ मिलितः सर्वो, गोलानद्यास्तटेऽधुना ॥ ३५० ॥ मन्त्री सुबुद्धिरूचे च, सपत्नीशङ्कया तया । देवी चम्पकमालैषा, निक्षिप्ता काष्ठसम्युटे ॥ ५१ ॥ काष्ठसम्पुटमेतच्च, बद्धाऽलं रज्जुबन्धनैः । नगोचरनदीवाहे, खेचर्याऽत्र प्रवाहिता ॥ ५२ ॥ जीवघातेन नैवास्य, सा विद्या किल सिध्यति । तत्रैव न हता देवी, खेचर्यैवं प्रवाहिता ॥ ५३ ॥ अस्माकं पुण्यवत्काष्ठं, तरद् दूरात्तदागतम् । दृष्टमादायि चास्माभिर्लब्धा देव्यप्यतर्किता ॥ ५४ ॥ यदद्य पूर्वयामान्ते, युष्माकं मिलिता प्रिया । सत्यं देवीवचो जातं, सप्तयामान्तसङ्गमात् ॥ ५५ ॥ नृपो जगाद न ज्ञाता, माया भूतस्य । केनचित् । अहो राज्यक्षयं कर्तुं, प्रवृत्तस्यातिमायिनः ॥ ५६ ॥ कुलस्य कुशलं कृत्वा, पुत्रं देवी यदर्पिता । उपद्रवन्नयं भूतो, वारितस्तद्वरं कृतम् ॥५५॥ आधारस्तीबदुःखानामपहारोऽपि ते प्रिये ! । अग्रौषधनयेनैष, बभूव शुभहेतवे ॥ ५८ ॥ काष्ठफाल्यौ नृपेणाथामोच्येतां ते उभे अपि । भट्टारिकागृहे गोलानदीतीरविभूषणे ॥ ५९॥ अन्नान्तरे नरेन्द्रस्य, कालज्ञापनहेतवे । गम्भीरोद्दामशब्देन, पेठे वृत्तं सुबन्दिना ॥ ३६० ॥ हेलोत्तीर्णवियद्भिरार्णवजलप्राप्तोल्लसद्भाप्रियः, स्वैरं विश्रमयन्निलाधरशिरश्चके प्रतापं निजम् । तन्वानः सुपथो विकाशकमलामोदैर्जगत् प्रीणयन, सर्वस्योपरि वर्तते रविरयं देवोऽधुना त्वं यथा ॥६१॥ ततः सुबुद्धिना राजा, विज्ञप्तो देव! साम्प्रतम् । सम्प्राप्तवा 40000000000000०००००००००००००००००० Jain Education L o onal For Private Personel Use Only AM.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy