________________
म. सु. ॥ १४ ॥
Jain Educatio
करिष्यति ततो भार्या, शीलं ते खण्डयिष्यति ॥ ३८ ॥ भविष्यति सपत्नीजं, दुःखं मेऽपि सुदुस्सहम् । तदेहि त्वं द्रुतं येन, भवेत्सर्वं सुसूत्रितम् ॥ ३९ ॥ जल्पन्तीति स्वहस्तेन, गृहीत्वा मां नभश्वरी । आसन्नायास्तरङ्गिण्या, वहन्त्यास्तीरमन्वगात् ॥ ३४० ॥ मयाऽध्यायि किमेषा मां, हनिष्यत्यथवा किमु । उद्भन्त्स्यतीह वृक्षाग्रे, किं वा क्षेप्स्यति कन्दरे ॥ ४१ ॥ किं वा नदीप्रवाहेऽत्र, वाहयिष्यति वेद्मि न । किं वाऽथ चिन्तया भूरिदुःखे दुःखमदुःखकृत् ॥ ४२ ॥ तत्राभूत्पतितं शुष्कं स्थूलं काष्ठं स्वभावतः । विद्याशक्त्या ततश्रोई, तद्वेधा विहितं तया ॥ ४३ ॥ ते मध्ये शुषिरे कृत्वा, दले द्वे पुरुषप्रमे । गोशीर्षचन्दनेनाहं, सर्वाङ्गमन्वलेपि च ॥ ४४ ॥ कर्पूरागरुकस्तूरीप्रमुखैर्गन्धवस्तुभिः । समलंकृत्य खेचर्या, तयाऽभाणीति मा प्रति ॥ ४५ ॥ एहि त्वं हे शुभे ! शीलं येन रक्षामि तेऽधुना । जल्पन्त्येति तदा क्षिप्ता, फालीमध्येऽहमेतया ॥ ४६ ॥ काष्ठफाली द्वितीया च दत्ता मङ्क्षु ममोपरि । न जानेऽतः परं किञ्चित्, गर्भवास इव स्थिता ॥ ४७ ॥ अधुनाऽत्र ततो दृष्टा, यूयं प्राक्पुण्ययोगतः युष्माकं कथितः स्वामिन्!, वृत्तान्तोऽयं निजोऽखिलः ॥ ४८ ॥ नृपेणाभाणि देवि ! त्वं, पतिता हा महापदि । प्राणत्यागः समारब्धो, मयाऽपि विरहे तव ॥ ४९ ॥ ज्वलच्चिताप्रवेशं मे, दृष्ट्वा लोकोऽपि दुःखितः । तेनैष
ational
For Private & Personal Use Only
म. का.
॥ १४ ॥
www.jainelibrary.org