SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ तव स्थाने विकृत्याथ, त्वदङ्गसदृशं शबम् । तस्थौ तत्रैव भूतः स, प्रच्छन्नः पापचेष्टितः ॥ २६ ॥ ततोऽकस्मादजीवां त्वां, विलोक्य प्रलपन्प्रियाम् । यद् दुःखमन्वभूद्राजा, तज्जानाति स एव हि ॥ २७ ॥ युष्मदुःखे श्रुते । प्राणेश पप्रच्छेऽथ सा मया । किं जीविष्यति भूपालो ?, मिलिष्यति कदा मम? ॥ २८ ॥ तयाऽवादि शुभे! सप्तप्रहरान्ते । नृपस्तव । अहो दुस्सहदुःखातः, पुनर्जीवन मिलिष्यति ॥ २९ ॥ पृच्छाम्यहं पुनर्यावत् , क मे राजा मिलिष्यति । एका विद्याधरी तावत्, सचेटी नभसाऽऽययौ ॥ ३३० ॥ इतश्च मम पश्यन्त्या, एव देवी तिरोदधे । एकाकिन्याः । समीपे मे, प्राप विद्याधरी तु सा ॥ ३१ ॥ विस्मिता खेचरी स्माह, मामालोक्य तदैकिकाम् । दिव्यरूपा शुभे ! काऽसि, शून्ये त्वमिह पर्वते !॥ ३२ ॥ ततः स्वकीयो वृत्तान्तो, मया तस्या निवेदितः । तया च भणितं हा हा, विजृम्भितमहो विधेः ॥ ३३ ॥ यद्येषा भूपतेः कान्ता, सुरूपा कुलसम्भवा । हा हा निर्मानुषे शैले, पतिता कलिता गुणैः ॥ ३४ ॥ शुभे ! त्वां नगरी चन्द्रावतीं भूयो नयाम्यहम् । साधयिष्यामि विद्यां किन्त्विदानीमिह पर्वते ॥३५॥ साधयामि न चेद्विद्यामधुना तन्न सिध्यति । तदुःखे पतितायाः कमुपकारं करोमि ते? ॥ ३६ ॥ एष एवोपकारस्ते, ममास्तु कमलेक्षणे!। यदत्र क्षणमात्रेण, प्रियो मम समेष्यति ॥ ३७ ॥ स्त्रीलोलः स पुनश्चेत्त्वामीढग्पामिहेक्षिता। Jain Education Slional For Private & Personel Use Only O w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy