SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ म. सु. ॥ १३ ॥ Jain Education तम् । पुत्रः पुत्री च युग्मं ते, भविष्यत्याशु सुन्दरि ! ॥ १३ ॥ इयतो दिवसान् यस्माद्, भूतेनानेन वैरिणा । युवयोः सन्तते रोधो, विदधेऽनुचरेण मे ॥ १४ ॥ वारयिष्याम्यहं तं तु, साम्प्रतं भवतोर्द्वयोः । अपकुर्वन्तमात्मीयं, किङ्करं वशवर्त्तिनम् ॥ १५ ॥ अथोत्पन्नमहासौख्यः, प्रशशंसेति तां नृपः । उत्पन्ना सुमतिः साधु, त्वया साधु च मार्गितम् ॥ १६ ॥ साध्वेष चोद्धृतो वंशः, साधु चिन्ता हता हृदः । त्वां विना मम दुःखानां, संहर्त्ता कः पुनः ! प्रिये ? ||१७|| यद्देवि ! मन्त्रणीयं प्रागासीत्तव ममापि च । पुत्रस्य विषये तत्ते, दुःखिताया अपि स्मृतम् ॥ १८ ॥ तयाऽथ मलया - देव्या, किं किं चोपकृतं तत्र । इत्युक्ते नरनाथेन, प्रोचे चम्पकमालया ॥ १९ ॥ लक्ष्मीपुञ्जाभिधं हारं गृहाणामुं विवेकिनि ! | जल्पन्त्येति तया क्षिप्तो, हारो मे कण्ठकन्दले ॥ ३२० ॥ तयाऽभाणि च हारोऽयं, दुर्लभः सुन्दरि ! | त्वया । सप्रभावः सदा शस्यो, धार्यः कण्ठावलम्बितः ॥ २१ ॥ अपत्यानि प्रभावन्ति, भविष्यन्ति मनोरथाः युवयोः पूरयिष्यन्ति, हारस्यास्य प्रभावतः ॥ २२॥ दत्तः सुवृत्तमुक्तानां, हारोऽयं देव ! में वरः । मलयाभिधदेव्या सा, || सतीर्थ्यत्वानुरक्तया ॥ २३ ॥ ततो मया पुनः पृष्टा, सा देवी नरनायक ! । क्व गतो देवि ! भूतः स, येनाहं मन्दिराद् | हता ? ॥२४॥ देव्युवाच ततो मुक्त्वा, शुभे ! त्वामिह पर्वते । चन्द्रावत्यां पुनः पुर्या, ययौ वेगेन सोऽमरः ॥ २५॥ For Private & Personal Use Only म. का. ॥ १३ ॥ 1w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy