________________
Jain Education I
बन्धुप्रियस्य ते । वीरपालाभिधो वीरधवलस्याभवत्पुरा ॥ ३०० || विविधान् स वधोपायांश्चिन्तयन् राज्यकाम्यया । भूपस्य घातकीभूय, प्रविष्टो मन्दिरेऽन्यदा || १ || सोऽमुचन्नृपतेर्घातं वञ्चयित्वा नृपोऽपि तम् । घातं तमेकघातेन, | पातयामास भूतले ॥ २ ॥ अन्तेऽसौ शुभभावेन, मृत्वोत्पन्नोऽत्र पर्वते । प्रचण्डो मे परीवारे, भूतोऽपश्यद्गतं भवम् ॥ ३ ॥ स्मृत्वा तदात्मनो वैरं, नरनाथस्य पृष्ठतः । छलं गवेषयन्नेष, परिबभ्राम सर्वतः ॥ ४ ॥ न शशाक पुनः किञ्चित्कर्त्तुं राज्ञः सुकर्मणः । ततोऽसौ चिन्तयामास, पापिष्ठो दुष्टचेतसि ॥ ५ ॥ देव्यां चम्पकमालायां, प्रेमबन्धो नरेशितुः । स कोऽपि दृश्यते वीरधवलस्यापरे न यः ॥ ६ ॥ मरणेन ततो देव्या, म्रियतेऽवश्यमप्ययम् । एषापि न मया हन्तुं शक्यते किञ्च नैकिका ॥ ७ ॥ छन्नो भूत्वा छलं पश्यन्न पहर्त्तुमनास्ततः । बभ्राम पृष्ठतो लग्नो, दुष्टो भूतः स सुन्दरि ! ॥ ८ ॥ अथैका भुवने सुप्ता, निद्राणा तेन सुन्दरि ! | अपहृत्यात्र मुक्ता त्वं, शैले मलयनामनि ॥ ९ ॥ ततस्त्वमागतेदानीं भवने मिलिताऽत्र मे । तुभ्यं ददामि किं ? ब्रूहि, सफलो मेऽस्तु सङ्गमः ॥ ३१० ॥ | ततोऽभाणि मया देवी, यदि तुष्टासि देवि ! मे । ततोऽपत्यविहीनायाः, प्रसीदापत्यदा भव ॥ ११ ॥ इतश्रोत्सुकचिचेन, नृपेणाभाणि वल्लभा । देव्या किं कथितं देवि !, परोपकृतिलीनया ॥१२॥ ऊचे चम्पकमालाऽथ, देव ! देव्येति भाषि
For Private & Personal Use Only
w.jainelibrary.org