SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ मध्यंदिने समागत्य, शय्याया सुप्तया तया । अपरिच्छदया देव्या, पत्रार्थ प्रेषिताप्यहम् ॥७५॥ पत्राण्यादाय तत्पार्थे, प्राप्ता यावदहं पनः । तावत्काष्ठमिवाचेष्टा, देवी सा ददृशे मया ॥ ७६॥ न जानेऽहं परं किञ्चिद्देव्याः प्राणाः कथं , गताः ? । किं रोगेण विषेणाथ, किं दुःखेनात्महत्यया ? ॥ ७७ ॥ इदं दम्भोलिपाताभं, हालाहलसमं वचः । शृण्वन्नतुच्छमूर्योऽगात् , भूपीठं भूमिवल्लभः ॥ ७८ ॥ वीजितः शीतलैर्वातैः, स सिक्तश्चन्दनद्रवैः । गतमूर्छः समुत्तस्थौ, भूपतिर्विलपन्निति ॥ ७९ ॥ रे रे निकृष्टदैवाह, प्रथमं किं न मारितः ? । देव्यमङ्गलवृत्तान्तं, नाश्रोष्यं येन किञ्चन । १८०॥ अरे दैव! त्वयाऽऽत्मा मेऽर्द्धच्छिन्नो विहितः कथम् ? । पश्चार्धमपि तं छिन्द्रि, पल्लीपुच्छमिवास्फुरत् ॥ ८ ॥ हा दिव्यावगमे देवि !, दक्षे ! दक्षिणचक्षुषः । स्फुरणेन त्वयाऽऽख्यायि, मृत्यु! रक्षितो मया ॥ ८२ ॥ अज्ञानोऽहं . महापापो, बुद्धिलेशोऽपि नास्ति मे । एवमेव स्थितो यस्मात् , ज्ञात्वाऽपि विपदं तव ॥ ८३ ॥ स्वं निन्दन्निति । सिञ्चश्व, भूपीठं नेत्रवारिभिः । राजा परिजनं सर्व, दु:खयामास तं तदा ॥ ८४ ॥ पपात पुनरुत्तस्थौ, क्षणं तस्थौ । क्षणं ययौ । शून्यमालोकयामास, विललाप नृपः क्षणात्(क्षणम्)॥८५॥ सम्भूय सचिवाः सर्वे, दुःखभारेण भङ्गुराः।। नृपं विज्ञपयामासुभृशं गद्गदया गिरा ॥८६॥ शीघ्रं चलत हे स्वामिन् !, गत्वा तत्र विलोक्यते । देव्याश्चम्पकमा Jain Education L a For Private & Personel Use Only ONw.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy