________________
म. सु.
॥ ७ ॥
I
ङ्काप्युदिते सूर्ये, तमोलेशोऽपि न प्रिये ! ॥ ६२ ॥ युग्मम् ॥ कथञ्चिद्यदि किञ्चित्ते, भविष्यत्यशुभं प्रिये ! । त्वया सह ममाप्यग्निः, शरणं द्राक् पतङ्गवत् ॥६३॥ इति संस्थाप्य देवीं तां भयभ्रान्तविलोचनाम् । सिंहासनोपविष्टः सन, राजा कार्यरतो|ऽभवत् ॥ ६४ ॥ यथा यथाऽस्फुरन नेत्रं, दक्षिणं सा तथा तथा । सौधे वने पुरे बाह्ये, देवी नापद्वतिं कचित् ॥ ६५ ॥ मध्याह्ने यावदागत्य, पल्यङ्के क्षणमस्वपीत् । किञ्चित् किञ्चित्तदा निद्रासुखं सेवितुमाहता ॥ ६६ ॥ इतश्च तस्यां वेलायां, ताडयन्ती शिरः करैः । चेटी वेगवती नाम्नी, सम्प्राप्ता राजसन्निधौ ॥ ६७ ॥ सा जगादाश्रुधाराभिः, क्षाल|यन्ती निजं मुखम् । देव्याश्चम्पकमालाया, देव ! जानामि नापि किम् ॥ ६८ ॥ इत्यर्द्धकथिते राजा, श्रुत्वा देव्याः । किमप्यदः । दृष्ट्वा चेटीं च शोकार्त्ती, जगाद चकितो हृदि ॥ ६९ ॥ हा देवि ! दैववशतस्तवागात्किममङ्गलम् ? । सञ्जातं सफलं किन्नु, स्फुरितं दक्षिणेक्षणम् ? ॥ १७० ॥ हञ्जे वेगवति ! ब्रूहि, विलम्बं सहते न हृत् । देव्याश्चम्पकमालाया, बभूव किमु साम्प्रतम् ? ॥ ७१ ॥ रुदती वेगवत्याह, धीरवीरशिरोमणे ! । द्वौ कर्णौ हृदयं चापि कुर्यास्त्वं वज्रकर्कशम् ॥७२॥ दारयन्ती सतां हन्दि, स्निग्धानि मधुराणि च । अतुच्छाऽऽगच्छति स्वेच्छा, वज्राशनिरियं प्रभो ॥ ७३ ॥ ईक्षणे दक्षिणे स्वामिन्!, प्रस्फुरत्यधिकाधिकम् । सौधे वने पुरे बाह्ये, लेभे देवी न शं क्वचित् ॥ ७४ ॥
Jain Education onal
For Private & Personal Use Only
म. का.
॥ ७ ॥
w.jainelibrary.org