SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ क्रीडन्ति लीलया ॥ ४९ ॥ तेनैव कृतकृत्यं स्वं, नरजन्म विनिर्मितम् । येनोत्तमरुचिः पुत्रः, कुलदीपोऽत्र बोधितः । A॥ १५० ॥ पुत्रादिसन्ततिर्देव !, पुण्यपुञ्जेन लभ्यते । पुष्योपचयहेतोस्तद् , यतितव्यमिहाधुना ॥ ५१ ॥ सामर्थ्येन न चार्थेन, यत्कार्य नैव सिध्यति । स्वामिन् ! विवेकिनां तत्र, न युक्ता परिदेवना ॥५२॥ ततः प्रसीद नाथ ! त्वं, चिन्तादुःखं हृदस्त्यज । चिन्तादुःखार्त्तिसन्तप्तो, विनश्यति यतो नरः ॥ ५३ ॥ सत्यवादी यदि क्वापि, काऽपि देवः कथञ्चन । नरेन्द्राराध्यते द्वाभ्यामावाभ्यां पुत्रहेतवे ॥ ५४ ॥ ततरतुष्टः सुतं दत्ते, पूरयत्यात्मवाञ्छितम् । देवं विना पुनः शक्तिः, कार्येऽस्तीशि कस्य वै? ॥५५॥ हृष्टो राजा जगादाथ, साध्वी बुद्धिः प्रिये ! तव । उपायः साधुराप्तस्तदेवं भवतु | सुन्दरि ! ॥ ५६ ॥ सुमुहूर्ने दिने देवं, विधिना सत्यवादिनम् । आवामाराधयिष्यावः, सत्पुत्रोत्पत्तिहेतवे ॥ ५७ ॥ देवी स्माऽऽह पुनर्दीनमुखी देव ! वचः शृणु । न जानेऽहं परं नेत्रं, दक्षिणं मे स्फुरत्यदः ॥५८॥ निमित्तेनामुना नूनं, कोऽपि भूतग्रहो मम । विद्युत्पातोऽथवा किंवा, सर्वस्वापहृतिः क्षणात् ॥ ५९॥ रोगातकोऽथवा कोऽपि, किंवाऽऽपत् । प्राणसंशया । भविष्यति ततः क्वापि, सम्पद्यते न मे रतिः ॥ १६० ॥ युग्मम् ॥ राजा जगाद मा भीरत्वं, मा कार्षी-1 रति हृदि । आशतिष्ठा विरूपं मा, स्फुरत्यङ्गमिदं यदि ॥ ६१ ॥ तथापि पालयत्यत्र, मयि राज्यं कुतस्तव । भीश Jan Education For Private Personal use only O w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy