________________
ܪ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
ततः सर्व, श्रीवीरधवलान्तिके ॥ ४६० ॥ गच्छतार्द्धपथे तेन, रौद्राटव्यामुभावपि । प्राप्तौ श्रीवीरधवल सूरपालाभिधौ नृपौ ॥ ४६१ ॥ द्वयोरपि तयोर्येन, राज्ञोर्लोकमुखान्मृषा । शुद्धिर्मलयसुन्दर्या, प्राप्ता युगपदीदृशी ॥ ६२॥ रौद्राटव्यां यतो दुर्ग, तिलकारव्यमहागिरौ । भीमपल्लीपतेः पार्थेऽरित सा मलयसुन्दरी ॥६३ ॥ स्वस्वराज्यात्ततस्तत्रायातौ द्वावपि भपती । ताभ्यां पल्लीपतिः सोऽथ, लीलया दुर्जयो जितः ॥ ६४ ॥ वीक्षिता तत्र सर्वत्र, ताभ्यां मलय
सुन्दरी । किन्तु तस्याः पदमपि, दुर्लभाया अलाभि न ॥ ६५ ॥ नरेन्द्रौ तौ ततो यावद्यास्यतः स्वपुरं प्रति । तावत्सो। मेन विज्ञप्तः, श्रीवीरधवलो नृपः ॥६६॥ तथा तथोदितं सर्व, बलसारस्य वाचिकम् । राज्ञा वीरधवलेन, द्रुतमङ्गीकृत
यथा ॥ ६७ ॥ तेनाई यच्छताऽऽख्यातं, सूरपालाय भूभुजे । सर्व बहुमतं तेनाप्युल्लसल्लोभवाढिना ॥ ६८ ॥ सदावयोरिदं वैरिगेहं किमपि तं नवम् । हत्वाऽमुं नृपमेतस्य, सर्वस्वं गृह्यतेऽधुना ॥ ६९ ॥ मन्त्रयित्वेति तौ सिद्धराजस्योपरि भूपती । असङ्ख्यबलसंयुक्तौ, प्रचेलतुरुभावपि ॥ ४७० ॥ प्राप्तौ सागरतिलकपुरादारान्नरेश्वरौ । कम्पयन्तौ भुवं । सैन्यभारैः कातरचित्तवत् ॥ ७१ ॥ दत्त्वा शिक्षा ततो दूतस्ताभ्यां प्राक् प्रहितो हितः । सागरतिलकास्यस्य, नगरस्य नरेशितुः ॥ ७२ ॥ दूतस्तत्र गतो द्वारपालेनान्तः प्रवेशितः। कृत्वा प्रणाममेवं तं, सिद्धराजं व्यजिज्ञ
Jain Education
For Private
Personal Use Only
Tainelibrary.org