SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Jain Education I तत्तयोर्बन्धमोक्षं त्वं कुर्वेकं सह दुर्नयम् । ततो राजा जगादैवं, कालकूटात्सुधा हहा ॥ २४ ॥ तावुभावपि तादृक्षौ त्वं तु सर्वोपकारकृत् । अहो विधेर्विचित्रेयं, सृष्टिर्दृष्टा मया स्फुटा ॥ २५ ॥ हे सत्पुरुष ! वाक्यं ते, करिष्येऽहं कियत्विदम् । आकर्णय त्वदायत्तं पुनरस्तीह कारणम् ॥ २६ ॥ पुरस्यास्य समीपस्थ, एकशृङ्गाभिधे गिरौ । देवताधिष्ठिता त्वेका, सुगुप्ता कूपिका वरा ॥ २७ ॥ मीलदुन्मीलदस्त्यस्या, मुखं नेत्रपुटे इव । अन्यच्च सलिलग्राही, भीतश्चेन्मृत एव सः ॥ २८ ॥ स्तम्भितस्यैव पुत्रेणानतेिनास्य जलेन चेत् । आच्छोट्यते पिता बध्धस्त्रीन् वारान् वीरकुञ्जर ! ॥ २९ ॥ बन्धमोक्षो भवेत्तर्हि, नान्यथापि कथञ्चन । इत्याकर्ण्य वणिग् स्माह, करिष्यामीदमप्यहम् ॥ १३० ॥ सामग्रिकां ततः कृत्वा, गतौ द्वावपि तत्र तौ । कूपिकाया मुखे क्षिप्तो, वणिग्पुत्रो विकाशिनि ॥ ३१ ॥ निर्भयो मञ्चिकारूढो, राज्ञाऽऽकृष्य जलान्वितः । दक्षेण विकसद्वक्रः, कूपिकाया बहिष्कृतः ॥ ३२ ॥ गृहीत्वा तं जलं म, तुरगीभूतराक्षसम् । आरुह्य तौ समायातौ, नगर्यामिह मन्दिरे ॥ ३३ ॥ लोभाकरोऽभिषिक्तः स्वजनको गुणवर्मणा । त्रिस्तेन सलिलेनाशु ततः सज्जीबभूव सः ॥ ३४ ॥ लोभनन्दी द्वितीयस्तु तथैवास्थाद् व्यथार्दितः । पुत्रं विना यतो नैव, बन्धमोक्षः कथञ्चन ॥ ३५ ॥ गुणवर्मोपरोधेन तुष्टेन विजयेन्दुना । गृहान्तः स्थापितः सोऽयं, द्वितीयो विरसं For Private & Personal Use Only w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy