________________
तथा । क्षणमात्रेण सिद्ध: स, निर्ययौ ज्वलनात्ततः ॥ ३५ ॥ वासवाश्वोपमाश्वाधिरूढोऽत्यन्तवपुर्महान् । संवीतदिव्यवसनः सर्वालङ्कारभासुरः ॥ ३६ ॥ जनयन् विस्मयं सिद्धो, वक्तुमेवं प्रचक्रमे । ददद्धर्षविषादौ च, व्यत्ययाल्लोकभूपयोः ॥ ३७ ॥ अहो एषा ज्वलद्वह्निः, पवित्रा सर्वकामदा । भूभिर्यत्पतितोऽत्राहमश्वोऽप्येवंबभूव च ॥ ३८ ॥ आवयोर्न कदापीह, रुग्जरा च मृतिस्तथा । भविष्यत्यन्यदप्यत्र प्रविष्टैरिष्टमाप्यते ॥ ३९ ॥ ततस्तत्र प्रवेशाय, राजाऽन्येऽपि समुद्यताः । सिद्धेनोक्तं ततो भो भोः !, क्षणमेकं विलम्ब्यताम् ॥१४०॥ पूजयाम्यनलं यावत्, विधिवत्तीर्थमप्यथ । आनाय्याज्यादि चिक्षेप, कूटमन्त्रपुरस्सरम् ॥ ४१ ॥ अहं पूर्व प्रवेक्ष्यामीत्युक्त्वा ध्यात्वा च वाञ्छितम् । प्राविशत्सहसा राजा, सचिवोऽपि ततो द्रुतम् ॥ ४२ ॥ कुमारो वारयामास, सर्वान् प्रविशतः परान् । विलम्ब्यतां क्षणं राजमन्त्रिनिर्गम ईक्ष्यताम् ॥ ४३ ॥ न निर्गतौ चिरेणापि, यावत्तौ तावदूचिवान् । यथाऽत्र किं जनः सिद्ध !, नायातौ नृपमन्त्रिणौ ! ॥ ४४ ॥ सोऽवोचज्ज्वलनात्किं भोः, कदाचित्कोऽपि निर्गतः ? । अहं तु कृतसांनिध्यः, सन्तुष्टेन सुपर्वणा ॥ ४५ ॥ जनो जगाद हुं ज्ञातं, वैरं स्त्रं वालितं त्वया । फलितोऽन्यायवृक्षोऽयं, सपुत्रामात्यभूपयोः ॥ ४६ ॥ सामन्ताद्यैस्ततस्तत्र, मन्त्रयित्वा महानरैः । स राज्यार्हः परे राज्ये, सिद्ध एव कृतो नृपः
Jain Educationational
For Private & Personal Use Only
www.jainelibrary.org