________________
म. सु.च केषांचित् , स गत्वा पुनरागमत् ॥ २२ ॥ प्रत्यक्षं सर्वलोकानां, पापोऽयमिति न्यत्कृतः । निर्वय॑त्यधुना नूनं, म. का.
दुष्टाध्यवसायतः ॥ २३ ॥ ध्यायन्नित्यपरां नाडी, कन्धरायाश्चकर्ष सः । नरेन्द्रस्य ततो वक्त्रं, वलित्वा स्थानमागतम् ॥ २४ ॥ अवरोधस्ततः सिद्ध, प्रशशंस प्रमोदभाग् । ऊचे च प्रार्थयस्वाहो, यत्ते किञ्चन रोचते ॥ २५ ॥ स स्माहैकामिमामेव, भार्या मलयसुन्दरीम् । मह्यं दापयतास्तीह, यदि शक्तिलवोऽपि च ॥ २६ ॥ ततस्ताभिर्भृशं । प्रोचे, प्रत्यूचे न पुनर्नृपः । दध्यौ चेयं कथं स्थाप्या!, यान्ती मलयसुन्दरी ॥२७॥ अत्रान्तरे समुत्तस्थौ, मन्दुरायां । हुताशनः । दारुणः पूरयन् ज्वालासहस्रैर्गगनाङ्गणम् ॥ २८ ॥ ततः प्रोचे नरेन्द्रेण, वरो मम तुरङ्गमः । दह्यते । सिद्ध ! तं कर्ष, कुरु तुर्य प्रयोजनम् ॥ २९॥ प्रियामादाय गच्छेस्त्वं, पश्चादद्यैव वाञ्छया । ततो ब्रूते जनोऽद्यापि, कुग्राहं न नृपोऽस्यति ॥ ४३० ॥ एतावतापि यदुष्टाध्यवसायं जहाति न । पापोऽयं तदमुष्यात्र, योग्यं कर्तुं करोमि । तत् ॥ ३१ ॥ ध्यायन्निति कुमारोऽथ, प्रवेष्टुं तं हविर्भुजम् । उत्पन्नहिगुणोत्साहो, बभूव प्रगुणः क्षणात् ॥ ३२ ॥ हाहाकारपरे लोके, बहुधा वारयत्यपि । मनसा भूपतिं भूरि, निन्दत्याक्रोशति क्रुधा ॥ ३३ ॥ कुमारः स्मृतदेवः । स, चिन्तितात्ममनोरथः । पतङ्गवत्पपाताग्नौ, लोकानामश्रुभिः समम् ॥ ३४ ॥ सन्तुष्टे नृपतौ लोके, स्फुरच्छोकभर
Jain Education Intel
For Private & Personel Use Only
M
ainelibrary.org