________________
Jain Education I
॥ ९ ॥ अन्यायकूटवसते !, हंहो धूर्त्तशिरोमणे ! । हृतो मज्जनकस्तावत्, जीवो मन्त्रीश्वरस्त्वया ॥ १० ॥ अस्माकं पश्यतां राज्ञो, दुःखावस्थाप्यसौ कृता । भविष्यतीह किं किं न, ततस्त्वत्तोऽसमञ्जसम् ? ॥ ११ ॥ इतश्चाकर्ण्य वृत्तान्तं तं सर्वमपि भूपतेः । भीतास्तत्राययुर्भूपभार्याः सर्वा अपि द्रुतम् ॥ १२ ॥ दृष्ट्वा ताः स्वामिनं दुःस्थमपूर्वाकारधारिणम् । प्रक्षिपन्त्यो मुखे पञ्चाप्यङ्गुली रोदनान्विताः ॥ १३ ॥ इति दीनखरेणैव, सिद्धस्याभिमुखं जगुः । कोपं मुञ्च प्रसीदाशु, सुसाधोऽस्मासु सम्प्रति ॥ १४ ॥ यादृशोऽभून्नृपो मूर्त्या तादृशं कुर्यमुं पुनः । अस्मभ्यं पतिभिक्षां त्वं, ||देहि कारुण्यमन्दिर ! ॥ १५ ॥ त्रिभिर्विशेषकम् । प्रत्यक्षं सर्वलोकानामेष दुःखं हि संगतः । परिणामं निजं दुष्टं, त्यक्ष्य - तीति विचिन्तयन् ॥ १६ ॥ सिद्धो जगाद यद्येष, स्वपादाभ्यां पुराद्वहिः । संस्थितं जिनमानम्य, पुनरागच्छतीह च ॥ १७॥ सज्जिताङ्गस्तदेष स्यात्, पतिर्वो नान्यथा पुनः । ततोऽशक्तोऽपि भूपः स तत्र गन्तुं प्रचक्रमे ॥ १८ ॥ त्रिभिर्विशेषकम् । कौतूहलेन पूर्लोके, चटितेऽट्टगृहादिषु । स्थाने स्थाने तथा पुञ्जीभूते भूपश्चचाल सः ॥ १९ ॥ ऋजुपादाभ्यामचाली|च्चापश्यन्निगमं ततः । पदे पदेऽपतन्राजा, दुःखेन महता ययौ ॥ ४२० ॥ विपरीताङ्गः पादेन, पश्यन्मार्गे चचाल स: । ययौ तथापि दुःखेन, प्रेरणाभ्यां विडम्बयन् ॥ २१ ॥ द्वाभ्यामपि प्रकाराभ्यां जनयन्निति कौतुकम् । केषां दुःखं
For Private & Personal Use Only
w.jainelibrary.org