SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ म. सु. ॥८॥ दितं राज्यं, निष्प्रत्यूहमिदं कुरु ॥९७॥ सामन्ताद्यास्ततः प्रोचुः, कुरु स्वामिन्निजं वचः । अनयेनैष यत्साधुर्युक्तः म. का. कोपयितुं न हि ॥९८॥ ततो मलयसुन्दर्यामनुरागवशंवदः । नृपो दध्यावसौ सिद्धः, शक्तिमान् मन्त्रतन्त्रवित् ॥९९॥ एष बाह्यानि कार्याणि, साधयामास लीलया। कारयामि ततः खाङ्गे, किञ्चित्कार्य सुदुष्करम् ॥ ४०० ॥ करि-1 ध्येऽहं तथा नाङ्गं, यथाऽयं कारयिष्यति । पश्चादकृतकार्यस्तां, कथं याचिष्यते प्रियाम् ? ॥ १ ॥ एवं कृतेऽत्र मे किञ्चित्, विगानं न भविष्यति । ध्यात्वेत्युवाच हे सिद्धार्पयिष्यामि तव प्रियाम् ॥ २ ॥ किन्तु त्वं बहुसाम Nस्तवासाध्यं न किञ्चन । तृतीयं कुरु कार्य तत्, पूर्व यन्मे हि मानितम् ॥ ३ ॥ पश्याम्यहं स्वनेत्राभ्यां, सर्वाङ्गं न तु पृष्ठकम् । तत्त्वं कुरु तथा वीक्षे, यथा तदपि मध्यवत् ॥ ४ ॥ क्षुद्रादेशानहो एष, वितरन्नैव तिष्ठति । ध्यायन्निति कुमारस्तु, साक्षेपमिदमब्रवीत् ॥ ५ ॥ नेक्षते कोऽपि पृष्ठं स्वमसग्राहस्तदेष किम् ? । स्वपृष्ठदृष्टौ ते. कीदृग् ?, कार्यसिद्धिनराधिप ! ॥ ६ ॥ ततः सिद्धो नरेन्द्रस्य, ग्रीवानाडी तथा बलात् । आचकर्षातिरोषेण, दन्तै- ८०॥ दन्तान्निपीडयन् ॥ ७ ॥ यथा भ्रान्त्वा मुखं जातं, घण्टास्थानेऽस्य तत्क्षणात् । मुखस्थाने पुनर्यन्त्रनरस्येव कृकाटिका ॥ ८॥ युग्मम् । विलोकय निजं पृष्ठं, सिध्यत्विष्टं नरेन्द्र !ते । इति जल्पति सिद्धे स, चुकोप सचिवो नवः । Jain Education in For Private & Personel Use Only lainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy