SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ तम् ॥ २२ ॥ राजा दध्यौ जनानां हि, वञ्चयित्वा दृशो बहिः । स्थिते धूर्तेऽत्र चिताया, ज्वालितो ज्वलनी म. का. भटैः ॥ २३ ॥ ज्ञात्वाऽथ दयितं तत्रायातं मलयसुन्दरी । आरक्षकयुता प्राप्ता, दृष्वा चोत्कण्ठिता भृशम् ॥ २४ ॥ एकान्तं कारयित्वा च, सर्व पप्रच्छ तं पतिम् । प्रविष्टोऽपि कथं नाथ ! , न दग्धस्त्वं चिताऽमिना ॥ २५ ॥ मन्दं । मन्दं बभाषेऽथ, प्रियेऽहं निर्ययौ तदा । सुरङ्गया यया तस्मादन्धकूपाद्भयङ्करात् ॥ २६॥ सुरङ्गाया मुखे तस्याः, गुर्वी च रचिता चिता । प्रविष्टे मयि तन्मध्यं, यदा प्रज्वालितोऽनलः ॥ २७ ॥ युग्मम् । सुरङ्गायास्तदा द्वारमुद्घाट्यान्तः । प्रविश्य च । पुनः पिधाय तद्वारं, तथैवाहं स्थितोऽन्तरा ॥ २८ ॥ ज्वालं ज्वालं ततो वह्नौ, निर्वाणे द्वारमाद-18 रात् । उद्घाट्याहं च निर्गत्य, क्षेमेणात्र समागतः ॥ २९ ॥ इदं गुह्यं त्वया कान्ते!, प्रकाश्यं नैव कस्यचित् । येनैष भूपतिर्दुष्टो, मम छिद्राणि पश्यति ॥ ३३० ॥ अत्रान्तरे समागत्य, नृपेणाभाणि सिद्ध ! भोः । अद्येमां भोजयात्मीयां, भार्यां मलयसुन्दरीम् ॥३१॥ कथयित्वा ततस्तेन, दयिता भोजिता निजा । पश्चादुक्तं मया राजंस्तव कार्य-/॥ ७७॥ मसाध्यत ॥ ३२ ॥ तन्मां प्रहिण गच्छामि भार्यामादाय सम्प्रति । सिध्यतात्प्रतिपन्नं ते, मा नेशत्सनृतव्रतम् ॥३३॥ नृपेण प्रेषिता दृष्टिर्जीवामात्यस्य सम्मुखम् । क्षणं विमृश्य मन्त्री स, ततो लमः प्रजल्पितुम् ॥ ३४ ॥ अहो सिद्ध ! Jan Education For Private Personal use only ना
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy