________________
कुमारः काष्ठनिचितां, प्रतस्थेऽथ चितां प्रति ॥ ३१० ॥ लोकानां हृदये शोकः, कुमारोऽपि चितान्तरा । प्रविष्टो निर्ग-18 तश्चाशु, तेषामश्रुभरः परम् ॥ ११ ॥ प्रज्वालितो नृपयुक्तैः, समन्ताज्ज्वलनो नरैः । साई समस्तलोकानामङ्गेष्व-12 सुखवह्निना ॥ १२ ॥ प्रशसंस जनस्तस्य, धीरत्वं जूलितेऽनले । सीत्कारमात्रमप्युच्चैरशृण्वन् भूपजन्मनः ॥ १३ ॥ अथ निर्जलितप्राये, ज्वलने राजपौरुषाः । स्वामिने कथयामासुः, यथाविहितमात्मनः ॥ १४ ॥ तस्यां रात्रौ । नृपं मुक्त्वा, जीवामात्यं च सर्वथा । निःशेषे नगरे तत्र, निद्रा कस्यापि नाययौ ॥ १५ ॥ प्रभातसमये जाते, स सिद्धः क्षारपुट्टलम् । कृत्वा शीर्षे समायासीत् , श्मशानेन पुरे पुनः ॥ १६ ॥ दृष्ट्वा तं विस्मितो लोको, जगादानन्दितो भृशम् । हहो सत्पुरुषेदं किं ?, शीर्षे त्वं चागतः कुतः ? ॥ १७ ॥ तस्याश्चिताया गृहीत्वा भस्म भूपस्य हे-11 तवे । आयातोऽस्मीति कथयन, स ययौ राजमन्दिरम् ॥ १८ ॥ स रक्षामर्पयामास, भूभृते कथयन्निति । प्रक्षिप त्वं निजे शीर्षे, रक्षां रोगः प्रयातु ते ॥१९॥ राजोचे किमहो सिद्ध ! , न दग्धरत्वं चिताग्निना !। कुमारोऽचिन्तयच्छद्म, कर्त्तव्यं छद्मनो ननु ॥ ३२० ॥ ऊचे चाहं नराधीश !, दग्धः सत्त्वेन मे पुनः । समायाताः सुरास्तत्र, सिक्तस्तैः सुधया चिता ॥ २१ ॥ जीवितोऽहं पुनस्तेन, गृहीत्वा भरमपुट्टलम् । तव योग्यमिहायातः, कुरु त्वं निजजल्पि
For Private 3 Personal Use Only
www.jainelibrary.org