SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte त्वया तावत्, कृतमेकं प्रयोजनम् । द्वितीयं चापि भूपस्य कुरु सन्वमहोदधे ! ॥ ३५ ॥ पुरस्यास्यैव नेदिष्टे, छिन्न| टङ्कस्य भूभृतः । विषमार्द्धतटस्थोऽस्ति, चूत एकः सदाफलः ॥ ३६ ॥ आनेतव्यानि तस्यापि शीतलानि फलानि भोः ! । तत्त्वया छिन्नटङ्कस्य, प्रस्थमारुह्य मुच्चकैः ॥ ३७ ॥ उपरिष्टात्तस्य चूतस्य देया झम्पा तत्वा फलान्यादाय दातव्या, पुनर्झम्पा भुवं प्रति ॥ ३८ ॥ पश्चादत्र समागत्य, फलान्येतानि भूभुजे | अर्पणीयानि येनास्य, पित्तपीडोपशाम्यति ॥ ३९ ॥ ततो दध्यौ कुमारोऽयं, क्षुद्रादेशो ऽतिदुष्करः । कर्त्तव्यं हि मया तच, बुद्धि: क्वापि न खिद्यते ॥ ३४० ॥ कार्येऽस्मिन्नकृतेऽनाप्तभार्योऽहं मृत एव तत् । द्वाभ्यामपि प्रकाराभ्यामागतं मरणं | मम ॥ ४१ ॥ कुतोऽपि चेद्विधिवशात्, क्षुद्रादेशं करोम्यमुम् । तज्जीवितं कलत्रं च द्वयमप्यस्ति मेऽधुना ॥ ४२ ॥ | ध्यात्वेत्युवाच हे मन्त्रिन् ! राज्यकार्यं करोम्यदः । इति ब्रुवन् कुमारो द्राग्, उत्तस्थावासनात्ततः ॥ ४३ ॥ पतत्सु दुःख पूरेण, दयितानयनाश्रुषु । कुमारश्छिन्नटङ्काख्यं, प्रतस्थे तं गिरिं प्रति ॥ ४४ ॥ यथा यथाऽद्विमारोहत् कुमारः स तथा तथा । लोकानां हृदये शोको, हर्षश्चामात्यभूभुजेोः ॥ ४५ ॥ पर्वताग्रं समारूढ, उदयाद्रिमिवार्यमा । ततो नृपनरेस्तस्य, दूरे चूतः स दर्शितः ॥ ४६ ॥ न्यायस्थितेन यत्किञ्चित्, मयाऽस्ति शुभमर्जितम् । ततस्तस्य प्रभावेन, सफलं For Private & Personal Use Only ainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy