________________
प्रमोदविवशोऽभवत् ॥ ७२ ॥ उवाच च शिरो धुन्वन् , कटरे शक्तिरस्य यत् । सुखेन सार्द्धमस्माकमस्याः म. का. प्रादायि जीवितम् ॥७३॥ तव किं नाम मे ब्रूहि !, पृष्टो राज्ञेति राजसूः । तस्मै सिद्ध इति स्वीयं, नामधेयमचीक-al थत् ॥ ७४ ॥ कल्येऽपीयं न भुक्तास्ति, किञ्चिद्वाला ततोऽधुना । जेमयोचितमेतां त्वमित्युवाच महीपतिः ॥ ७५ ॥ शर्कराक्षोदसंयुक्तमानाय्य कथितं पयः । कुमारेण स्वहस्तेन, यथेष्टं पायिताऽथ सा ॥ ७६ ॥ कुमारेण नृपः प्रोचे, गृहीत्वैनां व्रजाम्यहम् । मां प्रेषय निजं चोक्तं, कुरु त्वं सत्यवागसि ॥ ७७ ॥ रविवन्मेघवन्नीरराशिवच्च नरेश्वरः। नातिकामति मर्यादामन्यथैषा हता प्रजा ॥ ७८ ॥ अप्युक्तं पुरलोकेनार्पयेमामस्य बालिकाम् । तवास्तु भाषितं सत्यं, मिलतां दुःखिताविमौ ॥ ७९ ॥ इत्यादि बोधितो गूढकोपवह्निः शमीव सः । क्षणं तूष्णी क्षणं चक्रे, वार्ता अन्याश्च भूपतिः ॥२८०॥ तमपृच्छच्च हे सिद्ध !, तवैषा भवतीह किम् ? । स स्माह गृहिणी देव!, वियुक्ता मिलिताऽधुना ॥८१॥ अथोचे भूपतिः साधो!, कुवेंक मे प्रयोजनम् ।यथा हि मे शिरो नैव, दुःखे तिष्ठति कर्हिचित् ॥२॥ ततस्त्वं लक्षणैर्यादृक्, भव्यो कोऽपि नरो यदि । लभ्यते दह्यते चापि, निक्षिप्यान्तश्चितं ततः॥ ८३ ॥ रक्षा तस्याश्चिताया हि, हरेत्पीडां शिरःस्थिताम् । त्वया सम्पादितं तन्मे, भवत्वेतन्महौषधम् ॥ ८४ ॥ नूनं मलयसुन्दर्या,
॥७५॥
Jain Education
a
l
For Private & Personal Use Only
Alw.jainelibrary.org