________________
चिन्तयन्नित्यहं यावत्, कियती भूमिकां गतः । तावत्सर्पः स नष्टो दाग, ध्वान्तं चोल्लसितं भृशम् ॥ २६०॥ ध्वान्तेsप्यहं तथैवानुव्रजन्नास्फालितोऽश्मनि । ततः पादप्रहारेणाऽऽहताऽलं सा शिला मया ॥ ६१ ॥ द्वारमुद्घटितं तस्मात् , निर्गतेन मया बहिः । गर्भवासादिव प्राप्तं, पुनर्जन्मेति चिन्तितम् ॥ ६२ ॥ किञ्चिद्विश्वासमायातः, पश्यन्नहिपदं । भुवि । गन्तुं लग्नः प्रिये! सावधानचित्तोऽहमग्रतः ॥६३॥ कियद्गतेन दृष्टोऽहिः शिलाकुण्डलितो मया । वशीकृतस्य ।
मन्त्रेण, तस्यात्तश्च शिरोमाणिः ॥६४॥गिरिनद्याः सुरङ्गाऽत्र, यदेषा पितृकानने । चौरस्थानं तदेतधि, स परं तस्करो मृतः Man६५॥ ध्यायतेति पुनार, सुरङ्गाया गतेन तत्। पिधाय शिलया मुक्तं, तथैव मयका प्रिये ! ॥६६॥ जानन्नप्यात्म
नोऽनर्थ, नृपात्ते बिरहं पुनः । अनर्थमक्षमः सोढुं, प्रस्थितोऽहं पुरं प्रति ॥६७ ॥ आगां चात्र पुरे यावत्तावत् शुश्राव | डिण्डिमम् । माभिवाकारयन्तं त्वां, सज्जीकर्तुं विषाकुलाम् ॥ ६८ ॥ पृष्ट्वा ज्ञात्वा च वृत्तान्तं, लोकात्ते डिण्डिमो धृतः । मणिना तेन सर्पस्य, मया त्वं सज्जिता प्रिये ! ॥ ६९ ॥ मयैषोऽपि नृपो वाक्यसङ्कटे पातितोऽस्ति यत् ।। कर्त्तव्या न त्वया काचिदनिवृत्तिस्ततः प्रिये ! ॥ २७० ॥ निस्सन्देहमयं त्वां मे, वितरिष्यति वल्लभे ! । सुधासिक्तेव संजज्ञे, ततोऽसौ निवृता भृशम् ॥ ७१ ॥ अथाहूतः कुमारेण, राजाऽऽयातो विलोक्य ताम् । उपविष्टां प्रजल्पन्ती,
Jnin Educatio
n
al
For Private & Personal Use Only
Alww.jainelibrary.org