SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ म. सु. ॥ ७४ ॥ Jain Education राजादेशेन सर्वे तन्नियुक्तैर्विदधे नरैः । नृपो लोकोऽपि तत्स्थानात्, बहिर्झटिति तस्थिवान् ॥ ४७ ॥ एकाकिना कुमारेणु, प्रारेभे विषचालनम् । आलिख्य मण्डलं चक्रे, मन्त्रस्याप्यर्चनाविधिः ॥ ४८ ॥ कृत्वा ध्यानं महामन्त्रं स्मृत्वा च कटिपट्टकात् । कृष्ट्वा मणि कुमारेण, क्षालितोऽमलवारिणा ॥ ४९ ॥ तद्वारि नेत्रयोस्तस्या, यावत्तेन प्रचिक्षिपे । सा तावल्लोचने किञ्चित्, उन्मीलितवती शनैः ॥ २५० ॥ ततः क्षिप्तं मुखे नीरं, श्वासोऽपि स्फुरितस्ततः । युग्ममुद्घटितं चाक्ष्णोस्तयोः पुण्यमिव द्वयोः ॥ ५१ ॥ सिक्ता तेनाथ सर्वाङ्ग, मध्ये तद्वारि पायिता । समुत्तस्थौ कुमारस्यानन्दपूरेण सा समम् ॥५२॥ कुतस्त्वं प्रिय ! तस्माच्चान्धकूपान्निसृतः कथम् ? । कथं चक्रे त्वया सज्ज देहाऽहं चेत्युवाच सा ॥ ५३ ॥ कुमार ऊचे भद्रेऽहं, रज्जुच्छेदेन पातितः । यावत्कूपे स्थितस्तावत्सर्पस्तत्रैव सोऽभवत् ॥ ५४ ॥ कूपभित्तीस्ततः सर्वाः, | समन्तात्पश्यता मया । दृष्टा द्वारशिला तत्र, स सर्पों यत्र च स्थितः ॥ ५५ ॥ गत्वा छन्नं ततो द्वारं, शिला सा मु| ष्टिना हता । द्वारमुद्घटितं तत्र, सर्पश्वागात् पराङ्मुखः ॥ ५६ ॥ यावद्वारेण तेनाहं, प्राविक्षं साहसान्वितः । तावत्पृष्ठे फणी सोऽपि, दीपिकाधरवद्ययौ ॥ ५७ ॥ नूनमेषा सुरङ्गात्राकारि चौरेण केनचित् । ततः पुरः क्वचिद्वारमस्या गुप्तं भविष्यति ॥५८॥ पुमानिव ज्वलद्दीपधरो यद्यात्यहिः पुरः । तन्ममाऽद्यापि जागर्ति, कोऽपि पुण्यलवो ननु ॥ ५९ ॥ tional For Private & Personal Use Only म. का. ॥ ७४ ॥ ww.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy