SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ नरेणाभिनवेन सः । पटहो विधृतः सोऽपि, विधृतो नृपपौरुषैः ॥ ३४ ॥ अनेन पटहो देव!, धृतस्तैरिति वादिभिः । नीत्वा स (ऽऽशु) भूपतेः पार्थे, स पुमान् दर्शितस्ततः ॥३५॥ दृष्टो मलयसुन्दर्या, स एवायमहो पुमान् । अन्धकूपाततः प्राप, कथंकारं विनिर्ययौ ? ॥३६॥ केन दैवहतेनैष, पुनः पुनः बहिष्कृतः । को निर्गन्तुं यतो तस्मात्स्वयं शक्नोति । कूपतः १ ॥३७॥ध्यायन्निति नृपो मस, विधायाकारसंवरम् । ऊचे साधो ! विधेहि त्वं, सज्जां मलयसुन्दरीम् ॥ ३८ ॥ येन तं रणरङ्गेभ, कन्यां देशं च ते ददे । सोऽप्यूचे नृपमादारत्वमपरं मम किञ्चन ॥ ३९ ॥ देहि देशान्तरायातामेतां । मलयसुन्दरीम् । क्षणमात्रेण येनाहं, विदधामि निरामयाम् ॥ २४० ॥ (चर्तुभिः कुलकम्) सङ्कटे पतितो राजा, ततः स्माह ददेऽप्यदः । आदेशान् यदि मे कांश्चित्, करोष्यनु नरोत्तम! ॥४१॥ यद्वक्ष्यत्येष तदहं, कृत्वा सत्त्वाधिकः । क्षणात् । गृहीत्वा च निजां भार्या, गमिष्यामीत्यचिन्तयत् ॥ ४२ ॥ प्रतिश्रुत्य नरेन्द्रोक्तं, ततोऽसौ नृपसंयुतः। पार्थे मलयसुन्दर्या, विषमूर्छायुजो ययौ ॥ ४३ ॥ तदवस्थां ततो दृष्ट्वा, दुर्लभां वल्लभामिमाम् । रुरोदाश्रुप्रवाह स, कुमारः प्रसभं सृजन ॥ ४४ ॥ ऊचे चाहो नरेन्द्रास्या, बालायाः सर्वथा गताः । सर्वाश्चेष्टास्ततो नैव, श्वासस्पन्दोऽपि लक्ष्यते ॥ ४५ ॥ तथापि कारयाह्नाय, भूपतेऽत्र महीतलम् । निरुद्धजनसञ्चारं, सिक्तं चामलवारिणा॥ ४६॥ in duelan B ona For Private & Personal Use Only Sww.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy