SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Jain Education 1 उभे कूपे, क्षेपयामास मञ्चके । एतयोश्चटतां येनाकर्षयामीति चाह सः ॥ ९ ॥ अथो मलयसुन्दर्या, प्रोचे कन्दर्प एष सः । ममानुपदमायातो, राजा रागेण वल्लभ ! ॥ २१० ॥ कामान्धेनात्र येनाहं भूरिघस्रान् कदर्थिता । मयि लुब्धस्ततो नूनमयं त्वां मारयिष्यति ॥ ११ ॥ कुमारः स्माह चेत्कान्ते !, कूपादस्मात्कथंचन । निर्गतस्तत्करिष्येऽहं, | योग्यमेतस्य यद् ध्रुवम् ॥ १२ ॥ मा भैषीरत्वं द्रुतं भद्रे !, चटैकां मञ्चिकां द्वयोः । इति ब्रुवन् कुमारः स, आरुरोहैकमञ्चिकाम् ॥ १३ ॥ ततस्तौ मञ्चिके ऊर्ध्व, लग्नः कर्षयितुं नृपः । आत्मोच्छेदाय पातालादिव सर्पकरण्डिके ॥ १४ ॥ कूपोपकण्ठमायाता, यावन्मलयसुन्दरी । तावन्मृदुगिरा राज्ञा, सुखेनोचारिता बहिः ॥ १५ ॥ महाबलकुमारस्तूपकण्ठं यावदाययौ । मूर्त्तं काममिवालोक्य, तावत्तं स व्यचिन्तयत् ॥ १६ ॥ निस्सीमरूपलावण्यो, ययैषोऽधिगतः प्रियः । सा किं विहीनरूपं मां, मन्यते ताडिताऽप्यलम् ? ॥ १७ ॥ ततो जीवत्ययं यावत्संमुखं वीक्षते मम । तावन्नैवेयमथवा, मणिवाञ्छा तृणे कथम् ? ॥ १८ ॥ छुर्या छिन्ना ततस्तावद्, रज्जुः प्रापततः पुनः । कुमारः कूपतलकमनुगम्य प्रियामिमाम् ॥ १९ ॥ झम्पां दातुं पुनः कूपे, समुत्तालाऽथ सुन्दरी । धृत्वा कृच्छ्रेण भूपेन, निन्ये सा निजमन्दिरम् ॥ २२० ॥ कः किंनामा कथं चैष, मिलितस्ते कुतस्त्विह । इति पृष्टापि सा नाख्यत्, केवलं रुदती For Private & Personal Use Only jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy