________________
न्दरी। बद्धकक्षा मृतौ तस्थौ, विच्छायमुखपङ्कजा ॥३३॥ स्वयं बभाण राजा स, भाणयामास वाऽपरैः। भोगार्थ तां सती सातु, विभिदे नैव किञ्चन ॥३४॥ यद्यवस्तु समायातमपूर्व तत्तदर्पितम् । चित्तावर्जनकार्येण, तस्यै तेन महीभुजा ॥३५॥ अथान्यदा शुकस्यास्यात्, गच्छतः पुष्कराध्वनात् । एकमाम्रफलं पक्क, स्रस्तं भारेण सुन्दरम् ॥ ३६ ॥ उत्सङ्गे राज्ञ आकाशे, समासीनस्य पश्यतः । पतितं पाणिनाऽऽदाय, तेनैवं चिन्तितं पुनः ॥ ३७ ॥ कुतोऽत्र सम्भवश्चूतफलानां मासि फाल्गुने । हुं ज्ञातं छिन्नटकोऽस्ति, नगरं निकषा गिरिः ॥ ३८ ॥ तस्यातिविषमोत्तुङ्गशृङ्गसंस्थात्सदाफलात् । रसालात् फलमादाय, समुड्डीनः शुकः किल ॥ ३९ ॥ भारेणाम्रमिदं कीरमुखात् स्रस्तं भविष्यति। स्वय खादाम्यदस्तत्कि, ददे कस्मै प्रियाय वा ? ॥ १४० ॥ध्यात्वेत्यूचे स भोस्तस्यै, समर्पदं कलं फलम् । तमानीयावरोधेऽद्य, मुञ्चताहं भजे बलात् ॥ ४१ ॥ इत्युक्त्वा प्रेषितास्तेन, गत्वा तत्र जनास्तु ते । तदाम्रमर्पयामासुः, सापि जग्राह विस्मिता ॥ ४२ ॥ प्राप्तं फलमकालेऽपीदं पुण्यैश्चिन्तयन्त्यदः । तैरानीयाऽवरोघे सा, क्षिप्ता मलयसुन्दरी ॥ ४३ ॥ ततस्तैः पुनरागत्य, राज्ञे सर्व निवेदितम् । कृच्छेणापालयद्राजाप्यागञ्छन्ती विभावरीम् ॥४४॥ अथ सा. चिन्तयामास, सती मलयसुन्दरी । कन्दर्पोऽयं सकन्दर्पो, दर्पान्मां व्यथयिष्यति ॥ ४५ ॥ केशेभ्यो गुटिकां कृष्ट्वा,
O
For Private Personal Use Only
in Educatio
ww.jainelibrary.org
nal