SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ म. सु. ।। ६९ ।। Jain Education I किं न मनाऽहं ?, मत्स्येनोत्तारिता कथम् ? । पतिताऽहमिहागत्य दुःखे श्वभ्रोपमे यतः ॥ २१ ॥ कामान्धो यदि मे शीलं खण्डयिष्यत्ययं बलात् । मर्त्तव्यं तत्तदा नूनं, मयोपायेन केनचित् ॥ २२ ॥ वरं मृत्युर्न शीलस्य, भङ्गो येनाक्षतत्रतः । देवत्वं लभते याति नरकं तु क्षतत्रतः ॥ २३ ॥ अथोचे सा महाराज !, नयनिष्ठा नृपाः प्रजाः । पितृवत्पालयन्त्यत्र, सर्वकालं हितार्थिनः ॥ २४ ॥ त्यक्त्वा न्यायं त्वमप्येवं, यद्यकार्यं करिष्यसि । ततो नष्टाः प्रजाः सर्वाः, शरणाद्भयमुत्थितम् ॥ २५ ॥ सतीनां शीलविध्वंसः, कृतो लोकेऽत्र निश्चितम् । अकति कुरुते कामं, तीव्रदुःखान्यमुत्र तु ॥ २६ ॥ किं तु शीलं सतीनां हि, खण्ड्यमानं सुदुष्करम् । केसरिणः सटा यद्वत्, हग्विषाहेर्मणिर्यथा ॥ २७ ॥ यत्र प्रकुपिताः सत्यस्तं कुर्युः क्षारपुञ्जकम् । बुध्यस्व त्वं ततो राजन् ! स्वकुलं मा कलङ्कय ॥ २८ ॥ विशालस्तव वंशोऽयं, कुलं च विमलं नृप ! । गुणाधारस्त्वमेकोऽसि, कुकार्य युज्यते कथम् ? ॥ २९ ॥ स तया बोधितोऽप्येवं महासत्या नरेश्वरः । दुष्टाभिप्रायतस्तस्मात् कामान्धो न ह्यपासरत् ॥ १३० ॥ खण्डयिष्याम्यहं शीलमस्या नार्या बलादपि । क्षारपुञ्जं करोत्वेषा, मां चित्ते चिन्तयन्निति ॥ ३१ ॥ ततो निर्गत्य कन्दर्पो, राज्यकार्याणि निर्ममे । ध्रुवं शल्यायमानायां, तस्यामेव स्त्रियां हृदि ॥ ३२ ॥ युग्मम् । धर्मध्यानपरा सापि नित्यं मलयसु For Private & Personal Use Only म. का. ॥ ६९ ॥ ww.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy