________________
सर्वत्र, रोरभार्येव भूपते ! ॥ ८ ॥ ऊचेऽथ सेवकैर्देव ! , दुःखभारेण भारिता । इष्टभ्रष्टा न शक्नोति, वक्तुमेषाऽत्र किञ्चन ॥ ९॥ न प्रष्टव्या ततः किञ्चित् , वचसापि सुखायितुम् । इयं युक्ताऽनुकम्पायाः, कार्योपकृतिरेव च । ॥ ११० ॥ नृपः स्माह पुनर्भद्रे ?, तथापि खां वदाभिधाम् । मन्दं मन्दं तयोचेऽहं, नाम्ना मलयसुन्दरी ॥ ११ ॥ ततो राज्ञा निजावासं, नीता सौख्यासनेन सा । संरोहणीरसेनाङ्ग, सज्जितं च सुखं सुखम् ॥ १२ ॥ विमुक्ताऽऽवासी एकस्मिन् , दासदासीयुताऽथ सा । राज्ञा सन्मानयांचक्रे, वस्त्रालङ्करणैः स्वयम् ॥ १३॥ यद्येवं मामयं राजा, सत्करोति न तद्वरम् । ध्यायन्तीति सदा तस्थौ, सा धर्मध्यानतत्परा ॥ १४ ॥ अन्यदा भणिता तेन, मम भद्रे ! प्रिया भव।। पट्टबन्धस्तवैव स्तादहं त्वादेशकारकः ॥ १५ ॥ कामामिति तां भूपः, प्रार्थयामास मानुषैः । प्रकारान सामदानादीन् , दर्शयद्भिरनेकधा ॥ १६ ॥ स्वयं राजा जगादाथ, प्रेम्णा मां मन्यसे यदि । तदा भव्यं यतः प्रेम, वरं लोके द्विपाक्षिकम् ॥ १७ ॥ अन्यथा कामयिष्येऽहं, सुन्दरि ! त्वां बलादपि । यतो मम मनो लग्नं, तव रूपेअतिचारुणि ॥ १८ ॥ ततोऽसौ चिन्तयामास, प्रागेवेशचेतसा । अनेनाहं समानीता, तदद्य प्रकटीकृतम् ॥ १९॥ धिग् धिग् मे रूपचारुत्वं, पातालं यातु यौवनम् । अमुना येन सर्वत्र, मया प्राप्ता कदर्थना ॥ १२० ॥ जलधौ ।
Jain Education
For Private Personel Use Only
Kiw.jainelibrary.org