SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ एषा कल्पलता किं वा ?, चलानेरुपरि स्थिता ॥ ८३ ॥ इत्येवं विविधां शङ्का, जनयन्ती खचारिणी । जलक्षालित सर्वाङ्गी, ययौ सा मत्स्यसंस्थिता ॥ ८४ ॥ त्रिभिर्विशेषकम् । सुखं सुखमयं गच्छन् मत्स्यः प्राप स पोतवत् । सागरतिलकाख्यरय, वेलाकूलस्य सन्निधौ ॥ ८५ ॥ इतश्चाधिपतिस्तस्य, वेलाकूलस्य निर्ययौ । कन्दर्पाख्यस्तदा राजपाटिकायां जनैर्वृतः ॥८६॥ यावद्गजाधिरूढः स, समागादम्बुधेस्तटम् । अपश्यत्तावदायान्तं, तं मीनं नगरं प्रति ॥८७॥ तमारूढजनं मीनं, दृष्ट्वा सर्वेऽपि विस्मिताः । अपूर्वमिदमाश्चर्य, दृश्यतेऽद्यति वादिनः ॥ ८८ ॥ गजारूढ इवायाति, हरिवद्गरुडस्थितः । क एष जलमार्गेणेत्यवदस्ते परस्परम् ॥ ८९ ॥ राज्ञाऽभाण्यस्य मत्स्यस्य, मानुषस्यापि केनचित् ।। स्वैरमागच्छतो नैव, कार्य किमपि भो भटाः ! ॥ ९० ॥ ततः कौतूहलाऽऽकृष्टाः, सर्वे मौनेन संस्थिताः । अपश्यन्मत्स्यमायान्तं, व्यापारितविलोचनाः ॥ ९१ ॥ किञ्चिद्दूरेण लोकेभ्यस्तटमागत्य तेन सा । गृहीत्वा मृदु मत्स्येन, शुण्डादण्डेन सुन्दरी ॥ ९२ ॥ मन्दं मन्दं जलाहाह्ये, शुद्धभूमौ विमुच्य ताम् । नत्वा च ववले मीनः, पश्यन् पश्चात्पुनः पुनः ॥ ९३ ॥ अदृश्यतां गते मीने, जनानां निम्नपाथसि । पार्श्वे मलयसुन्दर्या, नृपोऽगाद्विस्मिताशयः॥ ९४ ॥ तमालोक्य व्रणाकीर्णामपि लावण्यसेवधिम् । नृपोऽवोचदियं तावत्, काचिन्नारी मनोहरा ॥ ९५ ॥ परमेवं प्रयत्नेन For Private Personel Use Only X w jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy