SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ॥ ६७ ॥ उत्पन्ना कुत्र कुन्त्राहं, परिणीता गता क्व च । यद्यदद्यापि मे भावि, सोढव्यं तत्तदेव हि ॥ ७१ ॥ अन्यदा साऽथ म. का. | सर्वाङ्ग, तैस्तक्षित्वाऽऽत्तलोहिता । मूच्छिता पतिता भूमौ लिप्ता रक्तेन सर्वतः ॥ ७२ ॥ इतच सहसाऽऽकाशात्, उत्तीर्याऽऽभिषवाञ्छया । भारण्डपक्षिणा चञ्चुपुटेनोत्पाटितासका ॥ ७३ ॥ स यावद्गगनेऽगच्छत्, प्रापोपरि पयोनिधेः । पुरस्तादपरः पक्षी, तावद्भारण्ड आययौ ॥ ७४ ॥ मांसखण्डस्य लोभेन, युयुधे सह तेन सः । ततश्चञ्चुपुटाद् बाला, गलिता चेतनान्विता ॥ ७५ ॥ परमेष्ठिनमस्कारं, जल्पन्ती पतिताऽथ सा । नीरोपरि तरद्धस्तिमत्स्य पृष्ठे | विधेर्वशात् ॥ ७६ ॥ भारण्डस्य मुखात्तावत् पतिताऽहं न वारिणि । महामत्स्यस्य पृष्ठे तु, स्थिता दैवनियोगतः ॥ ७७ ॥ यदा तु जलधेर्नीरे, मत्स्य एष निमङ्क्ष्यते । निराधारा मरिष्यामि, तदाऽहमपि निश्चितम् ॥ ७८ ॥ इति निश्चित्य चित्ते सा, चकाराराधनां स्वयम् । परमेष्ठिनमस्कारं, पपाठोच्चैः पुनः पुनः ॥ ७९ ॥ त्रिभिर्विशेषकम् । परमेष्ठिनमस्कारं शृण्वन् वक्रितकन्धरः । पृष्ठोपरिस्थितां तां स, वीक्षाञ्चक्रे पुनः पुनः ॥ ८० ॥ क्षणमेक झषः | स्थित्वा, तरन् पश्चाज्जलोपरि । स्थिरचित्तस्तथैवैकां दिशं गन्तुं प्रचक्रमे ॥ ८१ ॥ अहो नयति मामित्थं, सुखेनाथ क नेष्यति ? । प्रकृष्टहितवत्कोऽपि, मस्त्योऽयमिति विस्मिता ॥ ८२ ॥ जलकेलिनिमित्तं किं, गजारूढाब्धिनन्दना । म. सु. Jain Education For Private & Personal Use Only ॥ ६७ ॥ ww.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy