SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ चित्ते मलयसुन्दरी ॥ ५७ ॥ विक्रेष्यति विदेशे मां, किं वा क्षेप्स्यति सागरे । मारयिष्यति किं वैष, सार्थवाहो दुराशयः ॥ ५८ ॥ यद्भाव्यं तन्ममात्रास्तु, स परं पुत्रकः कथम् । भविष्यतीति दुःखेनाभवज्जीवन्मृतेव सा ॥ ५९॥ तयाsश्रूणि विमुञ्चन्त्या, स पृष्टो रुडकण्ठया ॥ हो सत्पुरुषाख्याहि, मत्पुत्रो विहितः कथम् ? ॥६०॥ स स्माह हृष्टचेतामे, मन्यसे यदि वाञ्छितम् । मेलयित्वा सुतं तत्ते, पूरयामि समीहितम् ॥ ६१ ॥ तं व्याघ्रदुस्तष्टीन्याय, वीक्ष्य सात्मन्युपस्थितम् । मुनिवन्मौनमादाय, शीलरक्षाकृते स्थिता॥६२॥ अनुकूलेन वातेन, प्राप बर्बरकूलकम् । कतिभिर्दिवसैर्यानपात्रं क्षेमेण तस्य तत् ॥६३॥ सर्व भाण्डं समुत्तार्य, शुल्कदानपुरस्सरम् । बलसारस्ततो लग्नो, विधातुं क्रयविक्रयम् ॥६॥ विक्रीता भूरिद्रव्येण, तेन सापि महासती । कृमिरागवस्त्रकरे, कारूणां निर्दये कुले ॥ ६५ ॥ तत्रापि दिव्यरूपा सा, प्रार्थिता कामहेतवे । कामान्धैर्युवभिः सामदामदण्डैरनेकधा ॥ ६६ ॥ तस्यास्तु चलितं चेतो, न कदापि मनागपि । एवंरूपा महासत्यो, भवन्ति भुवने यतः ॥ ६७ ॥ ततस्तैर्युवभिः क्रुद्वैस्तक्षं तक्षं वपुष्टरम् । तथा रुधिर-1 मादायि, यथा मूर्छामवाप सा ॥ ६८ ॥ कारं कारमन्तराले, कतिचिदिवसान पुनः । ततास्ते महापापा, रक्तार्थ तां । सतीमिति ॥६९ ॥ साऽचिन्तयदहो पूर्व, तदुष्कर्म मयाऽर्जितम् । उपर्युपरि दुःखाली, येनैवं ढौकते मयि ॥ ७० ॥ Jan Education For Private Personel Use Only O w .jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy