SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ म. सु. स्त्वं, स्वामिनी भव मानिनि ! । आजन्माहं तवाज्ञायाः, कारकः सपरिच्छदः॥ ४५ ॥ ममापुत्रस्य पुत्रोऽयं, भव- म. का. ॥६६॥ तात्तव पुत्रकः । प्रत्यहं प्रार्थयामास, मदनान्धः स तामिति ॥ ४६ ॥ ऊचे मलयसुन्दर्या, महापापमिदं तव । न युज्यते कुलीनस्य, विरुद्ध जन्मनोईयोः ॥ ४७ ॥ अपि नश्यतु सर्वस्वं, भवत्वङ्गं च खण्डशः । कलङ्कयामि शीलं स्वं, न तथाऽपीन्दुनिर्मलम् ॥ ४८ ॥ बहुप्रकारमित्यादि, वारितः स तथा तया । यथा विधाय तूष्णीकां, बाढं रोषारुणोऽभवत् ॥ ४९॥ तस्यास्तं पुत्रमादाय, दत्त्वा तालं च वेश्मनि । प्रियायाः प्रियसुन्दर्या, अर्पयामास स क्रुधा ॥ ५० ॥ ऊचे चैष प्रिये ! बालस्तेजस्वी रूपवान् मया । अशोकवनिकामध्ये, लेभे लक्षणसंयुतः ॥ ५१ ॥ भविष्यत्युज्झितो नार्या, स्वैरिण्याऽत्र कयाचन । ततोऽयं भवतात्पुत्रः, आवयोरनपत्ययोः ॥५२॥ तस्यात्मनामलेशेन, बल' इत्यभिधां व्यधात् । स धात्री स्थापयामास, स्तन्यपानाय सार्थपः ॥५३॥ शिक्षा दत्त्वाऽथ भार्याया आपृच्छत्य । स्वजनानपि । गेहाच्छन्नां गृहीत्वा तां, बलान्मलयसुन्दरीम् ॥ ५४ ॥ पूर्वसज्जीकृतं पोतं, सार्थवाहोऽधिरूढवान् ।। उत्क्षिप्ता नङ्गराः सर्वे, शीघ्रं कर्मकरैस्ततः ॥ ५५ ॥ युग्मम् । आज्ञया सार्थवाहस्य, ततः पोतः स पूरितः । तटं बर्बरकूलाख्यं, प्रत्यचालीज्जलाध्वना ॥ ५६ ॥ यानपात्रे पयोराशी, पूर्णवेगेन गच्छति । दुःखिता चिन्तयामास, Jain Education For Private Personel Use Only A jalnelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy