SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ तदेवाहं, यत्त्वं वक्ष्यसि भामिनि !। ॥ ३२ ॥ इति जल्पन्नसौ लुब्धस्तदङ्कादाशु तं सुतम् । गृहीत्वा चलितो गेहानिधानमिव तस्करः ॥ ३३ ॥ खण्डयिष्यति मे शीलं, पापोऽयमिति चिन्तया । जाता कार्यविमूढा सा, पतिता सङ्कटे भृशम् ॥ ३४ ॥ पुत्रस्नेहवशेनैषा, लग्ना तस्याथ पृष्ठतः । जीवे गच्छति किं पश्चात् , चेतना क्वापि तिष्ठति ?॥३५॥ प्रहृष्टः सार्थवाहस्तां, भाषमाणो मृदूक्तिभिः । पुत्रं सङ्गोप्य वस्त्रेण, प्राविशन्निजमन्दिरम् ॥ ३६ ॥ गुप्तस्थाने निवेश्याथ, खिद्यमानां नृपाङ्गजाम् । किञ्चिदाश्वासयामास, पुत्ररत्नसमर्पणात् ॥ ३७ ॥ यत्किञ्चन वदत्येषा, कर्त्तव्यं ।। तत्त्वया शुभे!। शिक्षयित्वेति! दास्येका, नियुक्ता तेन तां प्रति ॥३८॥ वरभोजनवस्त्रालङ्काराद्यं सर्वदा ददौ । बभाषे । न वचः किंचित्तस्याः सोऽप्रीतिकारणम् ॥ ३९ ॥ किञ्चित्स्वस्था ततस्तेन, पृष्टा सा तव नाम किम् । तया मन्द। बभाषेऽहं, नाम्ना मलयसुन्दरी ॥ ४० ॥ बलसारस्ततो दध्यौ, स्वं सम्यग् मा वदत्वियम् । नाम्नैव ज्ञायते । काऽपि, विशिष्टकुलसम्भवा ॥४१॥ ततः स्थानादयं प्राप, निर्विलम्बप्रयाणकैः । सागरतिलकं नाम, वेलाकूले । । निजं पुरम् ॥४२॥ गुप्तगेहे ततः क्वापि, मुक्ता सा ससुता तथा । न जानाति यथा कोऽपि, तामेकां दासिकां विना॥४३॥ ॥ अथ तेनान्यदाऽभाणि, सैवं मलयसुन्दरी । प्रतिपद्यस्व मामद्य, वल्लभत्वेन सुन्दरि ! ॥ ४४ ॥ ममास्याः सर्वलक्ष्म्या Jain Education l olosa For Private & Personel Use Only O jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy