SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ इतस्ततो जनाश्चेलु_संधोदकहेतवे । निर्ययौ सार्थवाहोऽपि, सार्थतः कायचिन्तया ॥ १९॥ यत्र पुत्रद्वितीयाऽभूत्कुञ्जे म. का. मलयसुन्दरी । यावत्तन्निकषा सोऽगादरोदीत्तावदर्भकः ॥ २० ॥ श्रुत्वा डिम्भस्वरं सार्थवाहो विस्मितमानसः। निकुञ्ज प्रविशन्बालामपश्यत् पुत्रसंयुताम् ॥ २१ ॥ अपूर्वा काऽपि रूपश्रीर्लावण्यमसमं तथा । एतस्याश्चिन्तयन्नेवमपृच्छत्सार्थनायकः॥२२॥ काऽसि त्वं किमरण्येऽत्र, सुन्दर्येकाकिनी किमु ? । आकारोऽपि तवाख्याति, प्रसूतिं प्रवरे कुले ॥२३॥ अप-Mall हारेण रोषेणाथवाऽभीष्टवियोगतः। वने बभूव वासस्ते, पुत्रस्य प्रसवोऽत्र च॥२४॥ बलसाराभिधानोऽहं, व्यवहारी महalर्डिकः । सागरतिलके द्रङ्गे, वसाम्यन्यत्र यामि च॥२५॥भव्यं जातं मया साई, यत्तेऽभूदेष सङ्गमः। ममास्त्यत्र पटावासस्तत्रागत्य सुखं भज ॥२६॥ तयाऽथ चिन्तितं चित्ते, शीलं मे खण्डयिष्यति । धनाढ्योऽयं युवा दृप्तस्तद्ददामि मृषोत्तरम् । ॥२७॥ध्यात्वेत्युक्तं तया श्रीमन्नहं मातङ्गबालिका । पितृभ्यां कलहे रोषात् , निर्गत्यात्र समागता ॥२८॥ तत्त्वं याहि । निजावासमागमिष्याम्यहं न तु । निजपित्रोमिलिष्यामि, गत्वा दुःखेन तस्थुषोः ॥ २९ ॥ आकारचेष्टितैरेभिर्नैषा मात-1॥६५॥ ङ्गबालिका । कारणेन तु केनापि, करोति कपटोत्तरम् ॥ ३० ॥ ध्यात्वेति बलसारः स, जगाद चपलेक्षणे ! चाण्डालत्वमिदं नैव, प्रकाश्यं क्वापि ते मया ॥३१॥ तदागच्छ ममावासे, तिष्ठ त्वं निजवाञ्च्छया । करिष्यामि Jain Education a For Private Personel Use Only A w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy