________________
प्यसि कथं पुनः ? ॥५॥ सुखहेतोर्विमुक्तायास्तदा प्रियतम ! त्वया । गच्छता मम जातेयमवस्था साम्प्रतं पुनः ॥६॥ हा वल्लभातिदुर्लम्भ! , ज्ञात्वोदन्तमिमं मम । विरहानलसन्तप्तो, भविष्यसि कथं कथम् ?॥७॥ हा मातस्तात! हा भ्रातमिलिष्यामि कथं हि वः । एतावन्त्यपपुण्याया, मम पुण्यानि सन्ति न ॥८॥ अभविष्यन्न चेज्जन्म, मृत्युर्वा जन्मतोऽपि । मे। अभविष्यं तदा नाहमीदृग्दुःखस्य भाजनम् ॥ ९॥बहुना शोचितेनापि, परित्राणं कदाऽपि न । कारणं विधिरेवेति, सा तं श्लोकं ततोऽस्मरत् ॥१०॥ इत्यादि बहुधा तस्या, विलपन्त्या महाव्यथा । दुःखान्याः समुत्पेदे, जठरे गर्भपूरिते । ॥११॥वेदनाविधुरा साऽथ, सुषुवे नन्दनं वरम् । पूर्वेव तरणेर्बिम्ब, तेजःपुञ्जविराजितम् ॥१२॥ आनन्दिताङ्कमारोप्य, पश्यन्ती तं निजं सुतम् । स्वयमेव वितन्वाना, सूतिकर्मेत्युवाच च ॥ १३ ॥ हा वत्स ! स्वच्छ ! कुर्वेऽहं, तवारण्येऽत्र कीदृशीम् । मनोरथशताप्तस्य, व पनपरम्पराम् ॥ १४ ॥ खिद्यमानेति बहुधा, सहमाना च यातनाम् । कम्पमाना भयेनोचैर्गमयामास तां निशाम् ॥ १५ ॥ प्रभाते सा समीपस्थां, नदीं गत्वाऽभवत् शुचिः । स्मृत्वा देवान् गुरूंवापि, फलान्यादद् बुभुक्षिता ॥ १६॥ निकले क्वापि सा यावत्, पालयन्ती स्तनन्धयम् । युगपच्छोकहर्षाभ्यां, तस्थौ । सङ्कीर्णमानसा ॥ १७ ॥ तत्र तावद्वहन् मार्गे, परिवारेण भूयसा । बलसाराभिधस्तस्थौ, सार्थवाहो नदीतटे ॥ १८ ॥
JainEducational
For Private 3 Personal Use Only